Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
विचार- 1 चैवं युक्तम्, स्वदेहगृहकुटुम्बाद्यर्थं भूयसोऽपि व्ययस्य गृहस्थेन करणात् देवगृहे देवपूजाऽपि स्वद्रव्येणैव यथाशक्ति कार्या, न तु || रत्नाकरः
| स्वगृहढौकितनैवेद्यादिविक्रयोत्थद्रव्येण देवसक्तपुष्पादिना वा प्रागुक्तदोषात् । तथा देवगृहागतं नैवेद्याक्षतादि स्ववस्तुवत् सम्यग् रक्षणीयम्,
सम्यग्मूल्यादियुक्त्या च विक्रेयम्, न तु यथा तथा मोच्यम्, देवद्रव्यविनाशादिदोषापत्तेः । सर्वप्रयत्लेन रक्षणादिचिन्ताकरणे जातु चौराग्न्याधुपद्रवाद्देवद्रव्यादि विनश्यति तदा तु चिन्ताकर्ता निर्दोष एव, अवश्यभाविभावस्याप्रतिकार्यत्वात् । इति श्रीश्राद्धविधौ ॥ २४ ॥
ज्ञानद्रव्यं हि देवद्रव्यवन कल्पते एव श्राद्धानां । साधारणमपि सङ्घदत्तमेव कल्पते व्यापारयितुं न त्वन्यथा, सङ्केनापि सप्तक्षेत्रीकार्ये ||२५१11
एव व्यापार्यम्, न मार्गणादिभ्यो देयम्, साम्प्रतिकव्यवहारेण तु यद्गुरुन्युञ्छनादिसाधारणं कृतं स्यात्तस्य श्रावकश्राविकाणामर्पणे युक्तिरेव न दृश्यते, शालादिकार्ये तु तद्व्यापार्यते श्राद्धैः । एवं ज्ञानसक्तं कागदपत्रादिसाध्वाधर्पितं श्राद्धेन स्वकार्ये न व्यापार्यं स्वपुस्तिकायामपि न स्थाप्यं समधिकनिष्क्रयं विना । साध्वादिसत्कमुखवस्त्रिकादेरपि व्यापारणं न युज्यते गुरुद्रव्यत्वात्, स्थापनाचार्यजपमालादि तु प्रायः al श्राद्धार्पणार्थं गुरुभिर्विह्रियते तेन गुर्वर्पिततद्ग्रहणे व्यवहारो दृश्यते, इति श्राद्धविधौ ॥ २५ ॥
तस्माद्देवज्ञानादेयं क्षणमपि न स्थाप्यं, अन्यस्यापि देयस्य प्रदाने विवेकिभिः सर्वथा न विलम्ब्यते, किं पुनर्देवज्ञानादेः । यदा च यावता मालापरिधानादि कृतं तदा तावद्देवादिद्रव्यं जातं, तच्च कथमुपभुज्यते, कथं वा तल्लाभादि गृह्यते, पूर्वोक्तदेवादिद्रव्योपभोगदोषप्रसङ्गात्, तस्मात्सद्य एव तदर्पणीयम् । यस्तु सद्योऽर्पयितुमशक्तस्तेनादावेव पक्षार्द्धपक्षाधवधिः स्फुटं कार्यः । अवधिमध्ये च स्वयमर्प्यम्, मार्गणादिविनाऽपि अवध्युल्लङ्घने देवद्रव्योपभोगदोषः । उद्ग्राहणिकापि शीघ्रमभग्नतया तच्चिन्ताकारकैः स्वद्रव्यवद्देवादिद्रव्येऽपि कार्या । अन्यथा बहुविलम्बे दुर्भिक्षदेशभङ्गदौस्थ्यापातस्यापि सम्भवात्, बहूपक्रमेऽपि तदसिद्धेः, तथाऽपि च महादोषः इति श्राद्धविधौ ॥ २६ ॥
तथा देवादिदेयं सम्यगेवाj, न तु घृष्टकूटनाणकादिना यथा कथञ्चिद्देवद्रव्योपभोगदोषापत्तेः, तथा देवज्ञानसाधारणसम्बन्धिगृहाट्टक्षेत्र| वाटिकापाषाणेष्टकाकाष्टवंशकवेल्लुकमृत्सुधादिकं श्रीखण्डकेसरभोगपुष्पादिकं पिङ्गानिकाचङ्गेरीधूपपात्रकलशवासकुम्पिकादिकं श्रीकरीचमरचन्द्रोदयझल्लरीभेर्यादिवाद्यसाबाणसिरावकजवनिकाकम्बलकपाटपट्टपट्टिकाकुण्डिकाकुम्भओरसकज्जलजलप्रदीपादिकं चैत्यशालाप्रणालाद्या- गतजलाद्यपि च स्वकार्ये किमपि न व्यापार्यम्, देवद्रव्यवत्तदुपभोगस्यापि दुष्टत्वात् । चमरसाबाणादीनां मलिनीभवनत्रुटनपाटनादिसम्भवे
२५१||

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298