________________
विचार- | त्वधिकदोषोऽपि । इति श्राद्धविधौ ॥ २७ ॥
Jeel श्राद्धविधिरत्नाकरः तथा अन्त्यावस्थायां पित्रादीनां यन्मान्यते तत्सावधानत्वे गुरुश्राद्धादिबहुसमक्षमेव वाच्यं यद्भवन्निमित्तमियद्दिनमध्ये इयद्व्ययिष्यामि
विचाराः Mol तदनुमोदना भवद्भिः कार्येति, तदपि सद्यः सर्वज्ञातं व्ययितव्यम् । स्वनाम्ना व्यये स्तैन्यादिदोषः पुण्यस्थानेऽपि स च महर्षेरपि हीनताहेतुः ।
यदार्षम्-" तवतेणे वयतेणे, रूवतेणे अ जे नरे । आयारभावतेणे अ, कुव्वई देवकिविसं ॥ १॥" धर्मव्ययश्च मुख्यवृत्त्या साधारण
एव क्रियते । यथा यथा विशेषविलोक्यमानं धर्मस्थानं तत्र तदुपयोगः स्यात् । सप्तक्षेत्र्यां हि यत्सीदत् क्षेत्रं स्यात्तदुपष्टम्भे भूयान् लाभो ।।२५२
दृश्यते ।। इति श्राद्धविधौ ॥ २८ ॥
सर्वेष्वपि नियमेषु च सहसाऽनाभोगाद्याकारचतुष्कं चिन्त्यम्, तेनानाभोगादिनाऽनियमितबहुवस्तुग्रहणेऽपि नियमभङ्गो न स्यात्, किन्त्वतिचारमात्रम् । ज्ञात्वा त्वंशमात्रग्रहणेऽपि नियमभङ्ग एव जातु दुःकर्मपारवश्येन ज्ञात्वाऽपि भङ्गेऽग्रतो नियमः पाल्य एव धर्मार्थिना । प्रतिपन्नपञ्चमीचतुर्दश्यादितपोदिनेऽपि तिथ्यन्तरभ्रान्त्यादिना सचित्तजलपानताम्बूलभक्षणकियद्भोजनादौ यदा तपोदिनं ज्ञातं तदनु मुखान्तःस्थमपि न गिलति, किं तु तत्त्यक्त्वा प्रासुकवारिणा मुखशुद्धिं कृत्वा तपोरीत्यैव तिष्ठति तद्दिने च यदि भ्रान्त्या पूर्ण भुक्तस्तदा द्वितीयदिने दण्डनिमित्तं तत्तपः कार्यम् । समाप्तौ च तत्तपो वर्द्धमानं कार्यम् । एवं चातिचार एव स्यान्न तु भङ्गः । तपोदिनज्ञानानुसिक्थादिमात्रगिलने तु भङ्ग एव नरकादिहेतुः । दिनसंशये कल्प्याकल्प्यसंशये वा कल्प्यग्रहणेऽपि भङ्गादिदोषः । गाढमान्द्ये भूतादिदोषपारवश्ये सर्पदंशाद्यसमाधौ च यदि तत्तपः कर्तुं न शक्नोति तथाऽपि चतुर्थाकारोच्चारान्न भङ्गः । एवं सर्वनियमेष्वपि भाव्यम् । इति श्राद्धविधौ ॥ २९ ॥
तयणु हरिसुल्लसंतो, कयमुहकोसो जिणिंदपडिमाणं । अवणेइ रयणिवसियं, निम्मल्लं लोमहत्येणं ॥१॥ मुखकोशश्चाष्टपुटः प्रान्तनासानिश्वासनिरोधार्थं कार्यः । इति श्राद्धविधौ ॥ ३० ॥
नित्यं पर्वसु वा वर्षमध्ये कियद्वारं वा खाद्यस्वाद्यादिसर्ववस्तूनां देवस्य गुरोश्च प्रदानपूर्वं भोजनम् । इति श्राद्धविधौ ॥ ३१॥
तथा ऋणसम्बन्धे हि प्रायः कलहानिवृत्तेर्वैरवृद्धाद्यपि प्रतीतं तस्मादृणसम्बन्धस्तद्भव एव यथा कथञ्चिन्निर्वाल्यः । अन्यत्राऽपि ||२५२| व्यवहारे निजस्वस्याचटने धर्मार्थमिदमिति चिन्त्यं धर्मार्थिना । अतः सार्मिकैरेव सह मुख्यवृत्या व्यवहारो न्याय्यः । तत्पार्थे स्थितस्य