Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 239
________________ विचार-10 नवपुव्वी ॥ १० ॥ उक्तानि यानि दिनानि अष्टम्यादीनि, तेभ्यो ये शेषा द्वितीयादयो दिवसास्ते स च कालश्च उक्तदिनशेषकालस्तस्मिन् व्यवहाररत्नाकरः। प्रशस्ते व्यतिपातादिदोषवर्जिते, उपलक्षणमेतत्, प्रशस्ते चर करणे प्रशस्ते मुहूर्ते, एतत् कालतः प्रशस्तमुक्तम्, भावतः प्रशस्तमाह Me विचाराः . उच्चैःस्थानं येषां ते उच्चैःस्थाना ग्रहा भावे भावविषये प्रशस्तम्, किमुक्तं भवति ? भावत उच्चैःस्थानगतेषु ग्रहेषु, तत्र ग्रहाणामुच्चैःस्थानमेवम्सूर्यस्य मेष उच्चैःस्थानम्, सोमस्य वृषः, मङ्गलस्य मकरः, बुधस्य कन्या, बृहस्पते: कर्कटः, शुक्रस्य मीनः, शनेश्च तुला, सर्वेषामपि च ग्रहाणामात्मीयादुच्चैःस्थानाद्यत्सप्तमस्थानं तन्नीचैःस्थानम् । अथवा भावतः प्रशस्ता ये सोमबहा बुधशुक्रबृहस्पतिशशिनः, एतेषां Mil सम्बन्धिषु राशिषु, एतैरवलोकितेषु च लग्नेषु आलोचयेत् । तथा तिस्रो दिशः प्रशस्ता ग्राह्याः, तद्यथा-पूर्वा उत्तरा चरंती, चरन्ती नाम यस्यां स भगवानर्हन् विहरति, सामान्यतः केवलज्ञानी, मनःपर्यायज्ञानी, अवधिज्ञानी, चतुर्दशपूर्वी, त्रयोदशपूर्वी यावन्नवपूर्वी, यदिवा यो यस्मिन्, युगप्रधानः आचार्यः स वा यया विहरति, एतासां तिसृणामन्यतमस्या दिशोऽभिमुखं आलोचना)ऽवतिष्ठते । तस्येयं | सामाचारी-निसज्जऽसति पडिहारिय, किइकम्मं काउ पंजलुक्कुडुओ । बहुपडिसेवरिसासु य, अणुण्णवेउं निसिज्जगतो ॥ ११ ॥ ae आत्मीयकल्पैरपरिभुक्तैराचार्यस्य निषद्यां करोति, असति-आत्मीयकल्पानामभावेऽन्यस्य सक्तान् प्रातिहारिकान् कल्पान् गृहीत्वा करोति, कृत्व च यद्याचार्यः पूर्वाभिमुखो निषीदति तत आलोचको दक्षिणत उत्तराभिमुखोऽवतिष्ठते, यद्याचार्य उत्तराभिमुखो निषण्णस्तत आलोचको वामपार्श्वे पूर्वाभिमुखस्तिष्ठति, चरन्तीं वा दिशं प्रत्यभिमुखो भवति, ततः कृतिकर्म-द्वादशावर्त्तवन्दनकं कृत्वा प्रबद्धोऽञ्जलिर्येन स प्रबद्धाञ्जलिः उत्सर्गत उत्कुटुकस्थितः सन्नालोचयेत्, यदि पुनर्बहुप्रतिसेवितमस्तीति चिरेणालोचना परिसमाप्ति यास्यति तावन्तं च कालमुत्कुटुकः स्थातुं न शक्नोति, यदिवा अझरोगवत उत्कुटुकस्य सतोऽसि क्षोभमुपयान्ति, ततो बहुप्रतिसेवी अर्श:सु च सत्सु गुरुमनुज्ञाप्य निषद्यायामौपग्रहिकपादप्रोछने वा अन्यस्मिन् वा यथार्हे आसने स्थित आलोचयति । किं पुनस्तदालोचनीयमुच्यते-चतुर्विधं द्रव्यादि, तथा चाह-चेयणमचित्तदव्वं, जणवयमद्धाण होति खित्तंमि । दिणनिसि सुभिक्खदुभिक्खकाले भावंमि हिट्ठियरे ॥ १२ ॥ द्रव्यतश्चेतनं-सचित्तमुपलक्षणमेतत्, मिश्रं वा, अचित्तं-अचेतनं वा, अकल्पिकं यत्प्रतिसेवितं, क्षेत्रतो जनपदे अध्वनि वा, कालतो दिने २२६|| निशि वा यदिवा सुभिक्षे दुर्भिक्षे वा भावे 'हिट्ठियरे' सप्तमी तृतीयार्थे हृष्टेन इतरेण वा ग्लानेन सता यतनयाऽयतनया वा दर्पतः कल्पतो

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298