________________
विचार-10 नवपुव्वी ॥ १० ॥ उक्तानि यानि दिनानि अष्टम्यादीनि, तेभ्यो ये शेषा द्वितीयादयो दिवसास्ते स च कालश्च उक्तदिनशेषकालस्तस्मिन् व्यवहाररत्नाकरः। प्रशस्ते व्यतिपातादिदोषवर्जिते, उपलक्षणमेतत्, प्रशस्ते चर करणे प्रशस्ते मुहूर्ते, एतत् कालतः प्रशस्तमुक्तम्, भावतः प्रशस्तमाह
Me विचाराः . उच्चैःस्थानं येषां ते उच्चैःस्थाना ग्रहा भावे भावविषये प्रशस्तम्, किमुक्तं भवति ? भावत उच्चैःस्थानगतेषु ग्रहेषु, तत्र ग्रहाणामुच्चैःस्थानमेवम्सूर्यस्य मेष उच्चैःस्थानम्, सोमस्य वृषः, मङ्गलस्य मकरः, बुधस्य कन्या, बृहस्पते: कर्कटः, शुक्रस्य मीनः, शनेश्च तुला, सर्वेषामपि
च ग्रहाणामात्मीयादुच्चैःस्थानाद्यत्सप्तमस्थानं तन्नीचैःस्थानम् । अथवा भावतः प्रशस्ता ये सोमबहा बुधशुक्रबृहस्पतिशशिनः, एतेषां Mil सम्बन्धिषु राशिषु, एतैरवलोकितेषु च लग्नेषु आलोचयेत् । तथा तिस्रो दिशः प्रशस्ता ग्राह्याः, तद्यथा-पूर्वा उत्तरा चरंती, चरन्ती नाम
यस्यां स भगवानर्हन् विहरति, सामान्यतः केवलज्ञानी, मनःपर्यायज्ञानी, अवधिज्ञानी, चतुर्दशपूर्वी, त्रयोदशपूर्वी यावन्नवपूर्वी, यदिवा
यो यस्मिन्, युगप्रधानः आचार्यः स वा यया विहरति, एतासां तिसृणामन्यतमस्या दिशोऽभिमुखं आलोचना)ऽवतिष्ठते । तस्येयं | सामाचारी-निसज्जऽसति पडिहारिय, किइकम्मं काउ पंजलुक्कुडुओ । बहुपडिसेवरिसासु य, अणुण्णवेउं निसिज्जगतो ॥ ११ ॥ ae आत्मीयकल्पैरपरिभुक्तैराचार्यस्य निषद्यां करोति, असति-आत्मीयकल्पानामभावेऽन्यस्य सक्तान् प्रातिहारिकान् कल्पान् गृहीत्वा करोति,
कृत्व च यद्याचार्यः पूर्वाभिमुखो निषीदति तत आलोचको दक्षिणत उत्तराभिमुखोऽवतिष्ठते, यद्याचार्य उत्तराभिमुखो निषण्णस्तत आलोचको वामपार्श्वे पूर्वाभिमुखस्तिष्ठति, चरन्तीं वा दिशं प्रत्यभिमुखो भवति, ततः कृतिकर्म-द्वादशावर्त्तवन्दनकं कृत्वा प्रबद्धोऽञ्जलिर्येन स प्रबद्धाञ्जलिः उत्सर्गत उत्कुटुकस्थितः सन्नालोचयेत्, यदि पुनर्बहुप्रतिसेवितमस्तीति चिरेणालोचना परिसमाप्ति यास्यति तावन्तं च कालमुत्कुटुकः स्थातुं न शक्नोति, यदिवा अझरोगवत उत्कुटुकस्य सतोऽसि क्षोभमुपयान्ति, ततो बहुप्रतिसेवी अर्श:सु च सत्सु गुरुमनुज्ञाप्य निषद्यायामौपग्रहिकपादप्रोछने वा अन्यस्मिन् वा यथार्हे आसने स्थित आलोचयति । किं पुनस्तदालोचनीयमुच्यते-चतुर्विधं द्रव्यादि, तथा चाह-चेयणमचित्तदव्वं, जणवयमद्धाण होति खित्तंमि । दिणनिसि सुभिक्खदुभिक्खकाले भावंमि हिट्ठियरे ॥ १२ ॥ द्रव्यतश्चेतनं-सचित्तमुपलक्षणमेतत्, मिश्रं वा, अचित्तं-अचेतनं वा, अकल्पिकं यत्प्रतिसेवितं, क्षेत्रतो जनपदे अध्वनि वा, कालतो दिने २२६|| निशि वा यदिवा सुभिक्षे दुर्भिक्षे वा भावे 'हिट्ठियरे' सप्तमी तृतीयार्थे हृष्टेन इतरेण वा ग्लानेन सता यतनयाऽयतनया वा दर्पतः कल्पतो