________________
विचार
रत्नाकरः । 888
वा, तदालोचयति । कथम् ? इत्याह-जह बालो जंपतो, कज्जमकज्जं च उज्जुअं भणइ । तं तह आलोएज्जा, मायामयविप्पमुक्को उ ।। १३ ।। यथा बालो मातुः पितुर्वा पुरतो जल्पन् कार्यमकार्यं च ऋजुकं अकुटिलं भणति तथा आलोचकोऽपि मायामदविप्रमुक्तः सन् तदालोचनीयं यथा ऋजुकभावेनालोचयेत् । आलोचनायाचेमे गुणाः- लहुयाह्लादीजणणं, अप्पपरनियत्ति अज्जवं सोही । दुक्करकरणं विणओ, निस्सल्लत्तं च सोहिगुणा ॥ १४ ॥ लघोर्भावो लघुता, यथा भारवाही अपहृतभारो लघुर्भवति तथा आलोचकोऽप्युद्धृतशल्यो लघुर्भवति इति लघुप्ता, तथा ह्लादनं ह्लादिरोणादिक इप्रत्ययः प्रहृत्तिस्तस्य जननं उत्पत्तिर्ह्रादिजननं प्रमोदोत्पाद इति यावत्, तथा || २२७ । ह्यतीचारधर्मोपतप्तस्य चित्तस्य मलयगिरिपवनसम्पर्केणेवालोचनाप्रदानेनातीचारधर्मापगमो भवति संविग्नानां महामुनीनां परमः प्रमोद इति, तथा ' अप्परनियत्ति' आलोचनाप्रदानतः स्वयमात्मनो दोषेभ्यो निवृतिः कृता, तं च दृष्ट्वाऽप्यन्ये आलोचनाभिमुखा भवन्तीत्यन्येषामपि दोषेभ्यो निवर्त्तनमिति तथा यदतीचारजातं प्रतिसेवितं तत्परस्मै प्रकटयतामात्मन आर्जवं सम्यग्विभावितं भवति, आर्जवं नामामायाविता, तथा अतीचारपङ्कमलिनस्यात्मनश्चरणस्य वा प्रायश्चित्तजलेनातीचारपङ्कप्रक्षालनतो निर्मलताशोधि:, तथा दुष्करकरणं-दुष्करकारिता तथा हि- यत्प्रतिसेवनं तन्न दुष्करं, अनादिभवाभ्यस्तत्वात्, यत्पुनरालोचयति तद्दुष्करं, प्रबलमोक्षानुयायिवीर्योल्लासविशेषेणैव तस्य कर्त्तुं शक्यत्वात् तथा ' विणउ ' त्ति आलोचयता चारित्रविनयः सम्यगुपपादितो भवति । ' निस्सल्लत्तं ' ति सशल्य आत्मा निःशल्यः कृतो भवतीति निःशल्यता, एते शोधिगुणाः- आलोचनागुणाः, आलोचनाशोधिरित्यनर्थान्तरत्वम् । अथ कस्य समीपे आलोचना दातव्या ? उच्यते-आगमव्यवहारिणः श्रुतव्यवहारिणो वा । तथा चाह-आगमसुअववहारी, आगमओ छव्विहो उ ववहारो । केवलिमणोहिचोद्दसदसनवपुव्वी उ नायव्वो ।। १५ ।। ' आगमसुयववहारी' त्ति व्यवहारिशब्दः प्रत्येकमभिसम्बध्यते आलोचनार्हो द्विविधः, तद्यथा-आगमव्यहारी श्रुतव्यवहारी च तत्रागमतो व्यवहारी षड्विधः, तद्यथा केवली - केवलज्ञानी, 'मणोहि' त्ति पदैकदेशे पदसमुदायोपचारान्मन: पर्यायज्ञानी अवधिज्ञानी च, ' चोद्दसदसनवपुव्वी' त्ति पूर्वशब्दः प्रत्येकमभिसम्बध्यते चतुर्दशपूर्वी दशपूर्वी नवपूर्वी च ज्ञातव्याः, एते च आगमव्यवहारिण:प्रत्यक्षज्ञानिन उच्यन्ते चतुर्दशादिपूर्वबलसमुत्थस्यापि ज्ञानस्य प्रत्यक्षतुल्यत्वात् । तथा हि-येन यथा योऽतिचारः, कृतस्तं तथा सर्वमेते जानन्तीति । पछुट्टे पडिसारण, अप्पडिवज्जंतयं न खलु सारे । जइ पडिवज्जइ सारे, दुविहतियारंपि पच्चक्खी ।। १६ ।। प्रत्यक्षी
%%%%%%%%%%%%%%%%%%%84%
1122011