Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 251
________________ विचार-6 सीप्रतिपत्पर्यन्तं यावदवश्यमनागाढो योगो निक्षिप्यते शेषेषु आगाढादिकेषु योगो न निक्षिप्यते, केवलं स्वाध्यायं न कुर्वन्ति । इति प्रकीर्णकरत्नाकरः श्रीव्यवहारभाष्यवृत्तौ सप्तमोद्देशके ६५९ वृतौ ५०८ पत्रे । विचाराः ॥ इति श्रीव्यवहारविचाराः समाप्ताः ॥ अथ श्रीपञ्चकल्पविचाराः-तत्र च पूर्व साधुभिर्मलमूत्रादिपीडा न रक्षणीयेत्यभिप्रायो लिख्यते मुत्तनिरोहे चक्खें, वच्चणिरोहेण जिविअं हणइ । छद्दनिरोहे कोढे, सुक्कनिरोहे भवे अपुमं ॥ (१॥) एतच्चूर्णियथा||२३८॥ मूत्रनिरोधे चक्षुस्तस्मान्मूत्रनिरोधे चक्षुरुपधातो भवति, पुरीषनिरोधे च जीवितोपघातः, छर्दिनिरोधे च कुष्टोत्पत्तिः शुक्रनिरोधे चापौरुषं स्यादिति । आह-यद्येवं शुक्रनिरोधेऽपुरुषत्वं भवति नन्वेवमनवस्था, यस्मादमी भगवन्तः साधवः पूर्वकोट्यायुष्का अपि ब्रह्म धारयन्ति, न ॐ च तेषामपुमत्वं भवत्यतः समयविरुद्धमुदाहृतम्, आचार्य आह-न सिद्धान्तापरिज्ञानात्, इह सामस्त्येन सूत्रमभिहितम्, तत्र ये ते शकुनी * | तत्कर्मसेवी पक्षिकापक्षिक इर्ष्यालुकाद्या-उत्कटवेदास्तान् प्रतीत्य सूत्रनिपातः, यस्मात्तेषां वेदप्रादुर्भावनिरोहेण नपुंसकत्वमापद्यते इत्यतो न विरोधः । इति श्री पंचकल्पभाष्यचूर्णी वृद्धसङ्घसक्तद्वादशे पत्रे ॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि अपरतटे व्यवहारपञ्चकल्पविचाराः समाप्ताः ॥ ॥ समाप्तं चेदं छेदग्रन्थविचारसमुच्चयनामाऽपरतटम् ॥ अनेकसिद्धान्तविचाररत्नरम्ये गुरूपासनमार्गलभ्ये । विचाररत्नाकरवामशास्त्रेऽपरं तटं प्राप्तमिदं समाप्तिम् ॥ १॥ येन प्रवचनमेतद्विहितं सहितं हितोपदेशेन । तमहितरहितं सुरनरमहितं श्रीजिनपतिं स्तौमि ॥१॥ अथ निरनुक्रमं प्रकीर्णकप्रकरणादिसङ्कीर्णविचारा लिख्यन्ते ॥२३८॥ अथ ये केचिन्मिथ्यात्विनां मार्गानुसारि कर्त्तव्यमपि नानुमोदयन्ति ते सिद्धान्तबाह्या ज्ञेयाः, विप्रतीपभावित्त्वात् । तथा हिअहवा सव्वं चिय वीयरायवयणाणुसारि जं सुकटं । कालत्तएवि तिविहं, अणुमोएमो तयं सव्वं ॥ अथवेति सामान्यरूपप्रकारदर्शनो । |

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298