Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 244
________________ विचार- घातात्, तथा च गुरवो व्याचक्षते-एकव्रतभङ्गे सर्वव्रतभङ्ग इति एतनिश्चयनयमतं, व्यवहारतः पुनरेकवतभङ्गे तदेवैकं भग्नं प्रतिपत्तव्यम्, Jal रत्नाकरः शेषाणां तु भङ्गः क्रमेण, यदि प्रायश्चित्तप्रतिपत्त्या नानुसन्धत्ते, इति । अन्ये पुनराहुः-चतुर्थमहाव्रतभङ्गप्रतिसेवनेन तत्कालमेव सकलचारित्रभ्रंशः, शेषेषु पुनर्महाव्रतेष्वभीक्ष्णप्रतिसेवनया महताऽतिचारेण वा वेदितव्यः । उत्तरगुणप्रतिसेवनायां पुन: कालेन चरणभ्रंशो यदि पुनः प्रायश्चित्तप्रतिपत्त्या नोज्ज्वालयति । एतदपि कुतोऽवसेयम् ? इति चेत्, उच्यते- शकटदृष्टान्तात् । तथा हि-शकटस्य मूलगुणा द्वे चक्रे, उद्धी अक्षश्च, उत्तरगुणा बुध्नकीलकलोहपट्टादयः एतैर्मूलगुणैरुत्तरगुणैश्च सुसम्प्रयुक्तं सत् शकटं यथा भारवहनक्षमं भवति मार्गे च सुखं वहति, तथा साधुरपि ||२३918 मूलगुणैरुत्तरगुणैश्च सुसम्प्रयुक्तः सन् अष्टादशशीलाङ्गसहस्रभारवहनक्षमो भवति, विशिष्टोत्तरोत्तरसंयमाध्यवसायस्थानपथे च सुखं वहति । अथ शकटस्य मूलाङ्गानामेकमपि मूलाङ्गं भग्नं भवति तदा न भारवहनक्षम, नापि मार्गे प्रवर्त्तते । उत्तराङ्गैस्तु कैश्चिद्विनाऽपि कियत्कालं शकटं भारक्षमं भवति प्रवहति च मार्गे, कालेन पुनर्गच्छता अन्यान्यपरिशटनादयोग्यमेव तदुपजायते । एवमिहापि मूलानामेकस्मिन्नपि मूलगुणे हते न साधूनामष्टादशशीलाङ्गसहस्रभारवहनक्षमता नापि संयमश्रेणिपथे प्रवहनम्, उत्तरगुणैस्तु कैश्चित्प्रतिसेवितैरपि कियतं कालं चरणभारवहनक्षमता संयमश्रेणिपथे प्रवर्तनं च, कालेन पुनर्गच्छता तत्राप्यन्यान्यगुणप्रतिसेवनातो भवति समस्तचारित्रभ्रंशः ततः शकटदृष्टान्तादुपपद्यते मूलगुणानां प्रतिसेवने एकस्यापि मूलगुणस्य नाशे तत्कालं चारित्रभ्रंशः उत्तरगुणनाशे कालक्रमेणेति । इतश्चैतदेव मण्डपसर्षपादिदृष्टान्तात् । तथा हि-एरण्डादिमण्डपे यद्येको द्वौ बहवो वा सर्षपाः उपलक्षणमेतत्-तिलतन्दुलादयो वा प्रक्षिप्यन्ते तथाऽपि मण्डपो न भङ्गमापद्यते अतिप्रभूतैस्त्वाढकादिसङ्ख्याकैर्भज्यते, अथ तत्र महती शिला प्रक्षिप्यते तदा तयैकयाऽपि तत्क्षणादेव ध्वंसमुपयाति, एवं चारित्रमण्डपोऽप्येकद्वित्र्यादिभिरुत्तरगुणैरतिचर्यमाणैर्न भङ्गमापद्यते बहुभिस्तु कालक्रमेणातिचर्यमाणैर्भज्यते, शिलाकल्पेन पुनरेकस्यापि मूलगुणस्यातिचारेण तत्कालं ध्वंसमुपगच्छतीति । इति श्रीव्यवहारभाष्यवृत्तौ प्रथमोद्देशके ६५९ प्रतौ १२७ पत्रे ॥ ३ ॥ अथऽऽलोचयतो गुणा दोषाश्च लिख्यन्ते " आलोयंतो एत्तो, दसहि गुणेहिं तु होइ उववेओ । जाइकुलविणयणाणे दंसणचरणेहि संपन्नो (॥१॥) खते दंतेऽमाई ॥२३१।। lael अपच्छतावी य होति बोधब्वे । आलोयणाए दोसा, एत्तो वुच्छं समासेणं ॥ २॥ इत उद्धे आलोचयन्नालोचको वक्तव्यः, स च

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298