Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 237
________________ l व्यवहारविचाराः रत्नाकर: विचार- त्ति दिशामभिग्रहः कर्त्तव्यः । ते च द्रव्यादयो दिशश्चैकैके प्रत्येक द्विधा द्विप्रकाराः, तद्यथा-प्रशस्ता: अप्रशस्ताच, तत्राप्रशस्तान् द्रव्यादीन् अप्रशस्तांश्च दिशो वर्जयित्वा प्रशस्तैर्द्रव्यादिभिर्दिग्विशेषैश्च, किमुक्तं भवति ? प्रशस्तेषु द्रव्यादिषु प्रशस्ताश्च दिशोऽभिगृह्यालोचयेत्lol आलोचनां दद्यात् ।। तत्राप्रशस्तद्रव्यादिप्रतिपादनार्थमाह-भग्गघरे कुड्डेसु अ, रासीसु य जे दुमा य अमणुण्णा । तत्थ न आलोएज्जा, तप्पडिवक्खे दिसा तिन्नि ॥ (२॥) यत्र स्तम्भकुम्भकुड्यादीनामन्यतमत्किमपि पतितं तद् भग्नगृहं तत्र, तथा 'कुड्डेसु' त्ति कुड्यग्रहणात् कुड्यमात्राविशेषे । तत्र पाठान्तरम्- रुद्देसु य ' त्ति, तत्र रुद्रेषु-रुद्रगृहेषु, तथा राशिषु-अमनोज्ञतिलमाषकोद्रवादिधान्यराशिषु, ये च द्रुमा ॥२२४ अमनोज्ञाः-निष्पत्रकंटकीप्रभृतयोऽमनोज्ञाः, तत्र तेष्वष्याश्रयभूतेषु, उपलक्षणमेतत् अप्रशस्तासु तिथिषु, अप्रशस्तेषु च सन्ध्यागतादिषु नक्षत्रेषु अप्रशस्ताश्च याम्यादीर्दिशोऽभिगृह्य नालोचयेत्, किं तु तत्प्रतिपक्षे प्रशस्तद्रव्यादिरूपे आलोचयेत् । + + + + + + + + + + तथा प्रशस्ताश्च तिस्रो दिशः पूर्वामुत्तरां चरन्तीं चाऽभिगृह्य आलोचयेत् । इदानीममनोज्ञधान्यराश्यादिषु द्रव्यादित्वयोजनामाहअमणुण्णधण्णरासी, अमणुण्णदुमा य होंति दव्वंमि । भग्गधररुद्दऊसर, पवा य दड्ढाइ खित्तंमि ॥ (३॥) अमनोज्ञधान्यराशयोऽमनोज्ञद्रुमाश्च भवन्ति द्रव्ये द्रष्टव्याः, भग्नगृह-प्रागुक्तस्वरूपम् । 'रुद्द' त्ति रुद्रगृहं 'ऊसर' त्ति उषरं यत्र तृणादिकं नोद्गच्छति, छिन्नटङ्का-तटीप्रपातः, भृगुप्रपातादिकं वा, दग्धं-दवदग्धं, आदिशब्दाद्विद्युद्दग्धादिपरिग्रहः । इत्यादि सर्वं क्षेत्रं द्रष्टव्यम्, तत्र यत् ' अमणुण्णदुमा य होंति दव्वंमि ' इत्युक्तं तदेतद्व्याख्यानयति-निप्पत्तकंटइल्ले, विज्जुहते खारकडुयदड्डे य । अयतउयतंबसीसग, दव्वे धण्णा य अमणुण्णा ॥ (४॥) निष्पत्रा:-स्वभावतः पत्ररहिताः करीरादयः, कंटकिनो-बदरीबब्बूलप्रभृतयः, विद्युद्धता-विद्युत्प्रपातभग्नाः, क्षाररसा-मोरडप्रभृतयः, कटुका:कटुकरसा रोहिणीकुटजनिम्बादयः, दग्धा-दवदग्धाः, एतान् द्रुमान् अमनोज्ञान् जानीहीति वाक्यशेषः । न केवलममनोज्ञा धान्यराशयोऽमनोज्ञा द्रुमाश्च द्रव्ये वर्जनीयाः, किं तु अयस्त्रपुताम्रसीसकराशयो द्रव्ये वर्जनीयाः । 'अमणुन्नधनरासी' त्ति व्याख्यानयति-अमनोज्ञानि धान्यानि पुनः चशब्दः पुनरर्थे अमनोज्ञधान्यराशयः । सम्प्रति कालतो ये दिवसा वर्जनीयास्तानेवाह-पडिकुवेल्लगदिवसे, वज्जेज्जा अदुमिं च Peel नवमिं च । छढेि च चउत्थिं, बारसिं च दोहंपि पक्खाणं ॥ (५॥) इह इल्लप्रत्ययः प्राकृते स्वार्थे, प्रतिकुष्टा एवं प्रतिकुष्टेल्लकाः, ते | ||२२४||

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298