Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 235
________________ रत्नाकरः । 888 विचार- 888 विनयश्चाभ्युत्थानादिस्तपोविनयं एतद्दर्शनादि यत्र पार्श्वस्थादौ पुरुषे यावद्यत्परिणामं स्वल्पं बहु वा जानीयात्तत्र तमेव भावं जिनप्रज्ञप्तं बृहत्कल्पस्वचेतसि व्यवस्थाप्य तावत्यैव भक्त्या कृतिकर्मादिलक्षणया पूजयेत् । इति बृहत्कल्पवृत्तौ तृतीयखंडैकादशपत्रे || ३ || विचाराः एतेनैव च ये पार्श्वस्थं सर्वथाऽचारित्रिणं मन्यन्ते तेऽपि परास्ता द्रष्टव्याः । केनचित्कारणबलेन परैः सह संवासे समापन्ने येन सह स्थेयं, यद्वा कर्त्तव्यं तल्लिख्यते पच्छन्नअसति निण्हव, बोडिय भिख्खु य असोय सोआय । पउरदवचड्डगाई, गरहा य सअंतरं एक्को ॥ १ ॥ प्रच्छन्नस्य ||२२२|| कंटकचिलिमिलिकयोश्चाभावे निह्नवेषु तिष्ठन्ति । तदभावे बोटिकेषु, तदप्राप्तौ भिक्षुकेषु । एतेष्वपि पूर्वमशौचवादिषु ततः शौचवादिषु, ततः शौचवादिषु च स्थिता आचमनादिषु क्रियासु प्रचुरद्रव्येण कार्यं कुर्वन्ति । चडुकं कमढकं तत्र भुञ्जते आदिशब्दादपरेणापि येन ते 'शौचवादिनो जुगुप्सां न कुर्वन्ति, तस्य परिग्रहः । एवं प्रवचनस्य गर्हा परिहृता भवति ।। सान्तरं चोपविष्ठा भुञ्जते । 'एको' त्ति । एकः क्षुल्लकादिः कमढकानां कल्पं करोति । इति श्रीबृहत्कल्पतृतीयखंडे २४ पत्रे ॥ ४ ॥ कदाचिदज्ञानात्स्त्यानर्द्धिनिद्रावति दीक्षिते सति यो विधि: स लिख्यते केसवअद्धबलं पन्नवेति मुअ लिंग णत्थि तुह चरणं । णेच्छस्स हरड़ संघो, णवि एक्को मा पदोसं तु ॥ १ ॥ केशवोवासुदेवस्तस्य बलादर्द्धबलं स्त्यानर्द्धिमतो भवतीति तीर्थकृदादयः प्रज्ञापयन्ति, एतच्च प्रथमसंहनिनमङ्गीकृत्योक्तम्, इदानीं पुनः सामान्यलोकबलाद्द्विगुणं त्रिगुणं चतुर्गुणं वा बलं भवतीति मन्तव्यम् । यत एवमत: स प्रज्ञापनीयः सौम्य ! मुञ्च लिङ्गं नास्ति तव चरणं चारित्रम्, यद्येवं गुरुणा सानुनयं भणितो मुञ्चति ततः शोभनमथ न मुञ्चति ततो मोक्तुमनिच्छतः, ततः सकाशात्सङ्घः समुदित: ' से ' तस्य लिङ्गं हरति-उद्दालयति, न पुनरेक: । कुतः ? इत्याह-मा तस्यैकस्योपरि प्रद्वेषं गच्छेत्, प्रद्विष्टश्व व्यापादनमपि कुर्यात् । लिङ्गापहारनियमार्थमिदमाह-अव केवलमुप्पाडे, ण य लिङ्गं देइ अणतिसेसी से । देसवय दंसणं वा, गिण्ह अणिच्छे पलायन्ति ॥ २ ॥ अपि सम्भावने, स चैतत्सम्भावयति । यद्यपि तेनैव भवग्रहणेन केवलमुत्पादयति तथाऽपि ' से ' तस्य स्त्यानर्द्धिमतो लिङ्गमनतिशयी न ददाति यः पुनरतिशयज्ञानी स जानाति न भूय एतस्य स्त्यानर्द्धिनिद्रोदयो भविष्यति ततो लिङ्गं ददाति इतरथा न ददाति, लिङ्गापहारे पुनः क्रियमाणेऽ 1122211

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298