________________
रत्नाकरः । 888
विचार- 888 विनयश्चाभ्युत्थानादिस्तपोविनयं एतद्दर्शनादि यत्र पार्श्वस्थादौ पुरुषे यावद्यत्परिणामं स्वल्पं बहु वा जानीयात्तत्र तमेव भावं जिनप्रज्ञप्तं बृहत्कल्पस्वचेतसि व्यवस्थाप्य तावत्यैव भक्त्या कृतिकर्मादिलक्षणया पूजयेत् । इति बृहत्कल्पवृत्तौ तृतीयखंडैकादशपत्रे || ३ ||
विचाराः
एतेनैव च ये पार्श्वस्थं सर्वथाऽचारित्रिणं मन्यन्ते तेऽपि परास्ता द्रष्टव्याः ।
केनचित्कारणबलेन परैः सह संवासे समापन्ने येन सह स्थेयं, यद्वा कर्त्तव्यं तल्लिख्यते
पच्छन्नअसति निण्हव, बोडिय भिख्खु य असोय सोआय । पउरदवचड्डगाई, गरहा य सअंतरं एक्को ॥ १ ॥ प्रच्छन्नस्य ||२२२|| कंटकचिलिमिलिकयोश्चाभावे निह्नवेषु तिष्ठन्ति । तदभावे बोटिकेषु, तदप्राप्तौ भिक्षुकेषु । एतेष्वपि पूर्वमशौचवादिषु ततः शौचवादिषु,
ततः शौचवादिषु च स्थिता आचमनादिषु क्रियासु प्रचुरद्रव्येण कार्यं कुर्वन्ति । चडुकं कमढकं तत्र भुञ्जते आदिशब्दादपरेणापि येन ते 'शौचवादिनो जुगुप्सां न कुर्वन्ति, तस्य परिग्रहः । एवं प्रवचनस्य गर्हा परिहृता भवति ।। सान्तरं चोपविष्ठा भुञ्जते । 'एको' त्ति । एकः क्षुल्लकादिः कमढकानां कल्पं करोति । इति श्रीबृहत्कल्पतृतीयखंडे २४ पत्रे ॥ ४ ॥
कदाचिदज्ञानात्स्त्यानर्द्धिनिद्रावति दीक्षिते सति यो विधि: स लिख्यते
केसवअद्धबलं पन्नवेति मुअ लिंग णत्थि तुह चरणं । णेच्छस्स हरड़ संघो, णवि एक्को मा पदोसं तु ॥ १ ॥ केशवोवासुदेवस्तस्य बलादर्द्धबलं स्त्यानर्द्धिमतो भवतीति तीर्थकृदादयः प्रज्ञापयन्ति, एतच्च प्रथमसंहनिनमङ्गीकृत्योक्तम्, इदानीं पुनः सामान्यलोकबलाद्द्विगुणं त्रिगुणं चतुर्गुणं वा बलं भवतीति मन्तव्यम् । यत एवमत: स प्रज्ञापनीयः सौम्य ! मुञ्च लिङ्गं नास्ति तव चरणं चारित्रम्, यद्येवं गुरुणा सानुनयं भणितो मुञ्चति ततः शोभनमथ न मुञ्चति ततो मोक्तुमनिच्छतः, ततः सकाशात्सङ्घः समुदित: ' से ' तस्य लिङ्गं हरति-उद्दालयति, न पुनरेक: । कुतः ? इत्याह-मा तस्यैकस्योपरि प्रद्वेषं गच्छेत्, प्रद्विष्टश्व व्यापादनमपि कुर्यात् । लिङ्गापहारनियमार्थमिदमाह-अव केवलमुप्पाडे, ण य लिङ्गं देइ अणतिसेसी से । देसवय दंसणं वा, गिण्ह अणिच्छे पलायन्ति ॥ २ ॥ अपि सम्भावने, स चैतत्सम्भावयति । यद्यपि तेनैव भवग्रहणेन केवलमुत्पादयति तथाऽपि ' से ' तस्य स्त्यानर्द्धिमतो लिङ्गमनतिशयी न ददाति यः पुनरतिशयज्ञानी स जानाति न भूय एतस्य स्त्यानर्द्धिनिद्रोदयो भविष्यति ततो लिङ्गं ददाति इतरथा न ददाति, लिङ्गापहारे पुनः क्रियमाणेऽ
1122211