Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 241
________________ व्यवहारविचाराः विचार- प्रत्यक्षज्ञानी आगमव्यवहारीत्यर्थः द्विविधमपि मूलगुणविषयमुत्तरगुणविषयं चातिचारमालोचयंतो यत्किमपि आलोचनीयम् । 'पहृढे' त्ति रत्नाकरःनि विस्मृतं भवति ततस्तस्मिन् विस्मृते प्रतिसारणं करोति, यथाऽमुकं तवालोचनीयं विस्मृतमिति तदप्यालोचयति, केवलं यदि केवलज्ञानादिबलेनैतज्जानाति यथैष भणितः सन् शुद्धभावत्वात्सम्यक् प्रतिपद्यते । ' वर्तमानसामीप्ये वर्तमानवद्वा' इति वचनतो भविष्यति वर्तमानाभिधानात्प्रतिपत्स्यते इति तदा स्मारयति, यदि पुनरेतदवगच्छति यथेष भणितोऽपि सन्न सम्यग् प्रतिपत्स्यते इति, तदा तमप्रतिपद्यमानं-अप्रतिपत्स्यमानं न खलु नैव स्मारयति, निष्फलत्वात् । अमूढलक्षो हि भगवानागमव्यवहारी, अत एव दत्तायामप्यालोचनायां 1122011 यद्यालोचकः सम्यगावृत्तौ ज्ञातस्ततस्तस्मै प्रायश्चित्तं प्रयच्छति अथ न प्रत्यावृत्त-स्ततो न प्रयच्छतीति । श्रुतव्यवहारिणः प्राह-कप्पपकप्पी उसुए आलोयाति ते उ तिक्खुत्तो। सरिसरथमपलिउंची, विसरिसपरिणामतो कुंची ॥ १७ ॥ कल्पग्रहणेन दशाश्रुतस्कन्धकल्पव्यवहारा गृहीताः प्रकल्पग्रहणेन निशीथः कल्पश्च प्रकल्पश्च कल्पप्रकल्पं तदेषामस्तीति कल्पप्रकल्पिनः, दशाकल्पव्यवहारादिसूत्रार्थधराः, तुशब्दत्वात् महाकल्पश्रुतमहानिशीथनियुक्तिनिशीथपीठिकाधरश्च श्रुते श्रुतव्यवहारिणः प्रोच्यन्ते । तथाऽऽलोचकं त्रि:कृत्वस्त्रीन् वारानालोचापयन्ति, ते ह्येकं द्वौ वा वारावालोचिते अनेन प्रतिकुञ्चनयाऽऽलोचितमप्रतिकुञ्चनया वेति विशेषं नावबुध्यते, ततस्त्रीन् वार(नालोचापयन्ति । कथम् ? इति चेत्, उच्यते-प्रथमवेलायां निद्रायमाण इव शृणोति, ततो ब्रूते निद्राप्रमादं गतवानहमिति न किमप्यश्रौषमतो भूयोऽप्यालोचय, द्वितीयवारमालोचिते भणति न सुष्ठु मयाऽवधारितमनुपयोगभावादतः पुनरप्यालोचय, एवं त्रिष्वपि वारेषु यदि सदृशार्थमालोचितं ततो ज्ञातव्यमेषोऽप्रतिकुञ्चोऽमायावी, अथ विसदृशं तर्हि ज्ञातव्यमेष परिणामतः कुञ्ची कुटिलो मायावी, अथैकं द्वौ वा वारावालोचनादापनेन मायावी किं नोपलभ्यते येन त्रीन् वारानित्युक्तं उच्यते-उपलभ्यते परं स्फुटतरोपलब्धिनिमित्तं त्रीन् वारानालोचाप्यते, तस्यापि च प्रत्ययो lol भवति यथाऽहं विसदृशभणनेन मायावी लक्षितः ततो मायानिष्पन्नं मासगुरुप्रायश्चित्तं पूर्वं दातव्यं तदनन्तरमपराधनिमित्तं प्रायश्चित्तमिति । अत्रैवार्थे दृष्टान्तमाह-तिन्नि उ वारा जह दंडियस्स, पलिउंचियंमि अस्सुवमा । सुद्धस्स होइ मासो, पलिउंचिइ तं चिमं चण्णं ॥ १८ ॥ दंडिको नाम करणपतिस्तस्य यथाऽन्यायपीडितं करणमुपस्थितं किं मायाव्येषोऽमायावी वेति परिज्ञानाय त्रीन् वारानपन्यायमुच्चारयितुमभियोगः । Lal एवं श्रुतव्यवहारिणोऽपि अतीचारशल्यपीडितं प्रायश्चित्तव्यवहारार्थमुपस्थितं एष प्रतिकुञ्चनापरो न वेति परिज्ञानार्थं त्रीन् वारानुच्चारयितुं 1122

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298