________________
l व्यवहारविचाराः
रत्नाकर:
विचार- त्ति दिशामभिग्रहः कर्त्तव्यः । ते च द्रव्यादयो दिशश्चैकैके प्रत्येक द्विधा द्विप्रकाराः, तद्यथा-प्रशस्ता: अप्रशस्ताच, तत्राप्रशस्तान् द्रव्यादीन्
अप्रशस्तांश्च दिशो वर्जयित्वा प्रशस्तैर्द्रव्यादिभिर्दिग्विशेषैश्च, किमुक्तं भवति ? प्रशस्तेषु द्रव्यादिषु प्रशस्ताश्च दिशोऽभिगृह्यालोचयेत्lol आलोचनां दद्यात् ।। तत्राप्रशस्तद्रव्यादिप्रतिपादनार्थमाह-भग्गघरे कुड्डेसु अ, रासीसु य जे दुमा य अमणुण्णा । तत्थ न आलोएज्जा,
तप्पडिवक्खे दिसा तिन्नि ॥ (२॥) यत्र स्तम्भकुम्भकुड्यादीनामन्यतमत्किमपि पतितं तद् भग्नगृहं तत्र, तथा 'कुड्डेसु' त्ति कुड्यग्रहणात्
कुड्यमात्राविशेषे । तत्र पाठान्तरम्- रुद्देसु य ' त्ति, तत्र रुद्रेषु-रुद्रगृहेषु, तथा राशिषु-अमनोज्ञतिलमाषकोद्रवादिधान्यराशिषु, ये च द्रुमा ॥२२४
अमनोज्ञाः-निष्पत्रकंटकीप्रभृतयोऽमनोज्ञाः, तत्र तेष्वष्याश्रयभूतेषु, उपलक्षणमेतत् अप्रशस्तासु तिथिषु, अप्रशस्तेषु च सन्ध्यागतादिषु नक्षत्रेषु अप्रशस्ताश्च याम्यादीर्दिशोऽभिगृह्य नालोचयेत्, किं तु तत्प्रतिपक्षे प्रशस्तद्रव्यादिरूपे आलोचयेत् । + +
+ + + + + + + +
तथा प्रशस्ताश्च तिस्रो दिशः पूर्वामुत्तरां चरन्तीं चाऽभिगृह्य आलोचयेत् । इदानीममनोज्ञधान्यराश्यादिषु द्रव्यादित्वयोजनामाहअमणुण्णधण्णरासी, अमणुण्णदुमा य होंति दव्वंमि । भग्गधररुद्दऊसर, पवा य दड्ढाइ खित्तंमि ॥ (३॥) अमनोज्ञधान्यराशयोऽमनोज्ञद्रुमाश्च भवन्ति द्रव्ये द्रष्टव्याः, भग्नगृह-प्रागुक्तस्वरूपम् । 'रुद्द' त्ति रुद्रगृहं 'ऊसर' त्ति उषरं यत्र तृणादिकं नोद्गच्छति, छिन्नटङ्का-तटीप्रपातः, भृगुप्रपातादिकं वा, दग्धं-दवदग्धं, आदिशब्दाद्विद्युद्दग्धादिपरिग्रहः । इत्यादि सर्वं क्षेत्रं द्रष्टव्यम्, तत्र यत् ' अमणुण्णदुमा य होंति दव्वंमि ' इत्युक्तं तदेतद्व्याख्यानयति-निप्पत्तकंटइल्ले, विज्जुहते खारकडुयदड्डे य । अयतउयतंबसीसग, दव्वे धण्णा य अमणुण्णा ॥ (४॥) निष्पत्रा:-स्वभावतः पत्ररहिताः करीरादयः, कंटकिनो-बदरीबब्बूलप्रभृतयः, विद्युद्धता-विद्युत्प्रपातभग्नाः, क्षाररसा-मोरडप्रभृतयः, कटुका:कटुकरसा रोहिणीकुटजनिम्बादयः, दग्धा-दवदग्धाः, एतान् द्रुमान् अमनोज्ञान् जानीहीति वाक्यशेषः । न केवलममनोज्ञा धान्यराशयोऽमनोज्ञा द्रुमाश्च द्रव्ये वर्जनीयाः, किं तु अयस्त्रपुताम्रसीसकराशयो द्रव्ये वर्जनीयाः । 'अमणुन्नधनरासी' त्ति व्याख्यानयति-अमनोज्ञानि धान्यानि
पुनः चशब्दः पुनरर्थे अमनोज्ञधान्यराशयः । सम्प्रति कालतो ये दिवसा वर्जनीयास्तानेवाह-पडिकुवेल्लगदिवसे, वज्जेज्जा अदुमिं च Peel नवमिं च । छढेि च चउत्थिं, बारसिं च दोहंपि पक्खाणं ॥ (५॥) इह इल्लप्रत्ययः प्राकृते स्वार्थे, प्रतिकुष्टा एवं प्रतिकुष्टेल्लकाः, ते |
||२२४||