________________
विचाररत्नाकरः ॥ 88
हस्तिनां सहस्राणि, एवं रथानामश्वानां मनुष्याणां च प्रत्येकं तिस्रः तिस्रः कोट्य: कूणिकस्याप्येवमेव तत एकादशभागीकृतराज्यस्य कूणिकस्य कालादिभिः सह निजेन एकादशांशेन सङ्ग्रामे काल उपागतः एतमर्थं वक्तुमाह-तए णं से काले' इत्यादिना एनं च व्यतिकरं ज्ञात्वा चेटकेनाऽप्यष्टादश गणराजानो मेलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिबलपरिमाणम्, ततो युद्धं सम्प्रलग्नम्, ॐ चेटकराजस्य तु प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुञ्चत्यमोघबाणश्च सः, तत्र कूणिकसैन्ये गरुडव्यूहः, चेटकसैन्ये सागरव्यूहो विरचितः । ततश्च कूणिकस्य कालो दण्डनायको निजबलान्वितो युद्ध्यमानस्तावद्गतो यावच्चेटकः, ततस्तेन शरनिपातेनासौ निपातितो भग्नं च कूणिकबलम्, गते च द्वे अपि बले निजं निजमावासस्थानम् । द्वितीयेऽह्नि सुकालो नाम दण्डनायको निजबलान्वितो युद्ध्यमानस्तावद्गतो यावच्चेटकः, एवं सोऽप्येकशरेण निपातितः । एवं तृतीयेऽह्नि महाकालः सोऽप्येवम् । चतुर्थेऽह्नि कृष्णकुमारः सोऽप्येवमेव । पञ्चमे सुकृष्णः ५ । षष्ठे महाकृष्णः ६ । सप्तमे वीरकृष्णः ७ । अष्टमे रामकृष्णः ८ । नवमे पितृसेनकृष्णः ९ । दशमे पितृमहासेनकृष्णः १० । चेटकेन एकैकशरेण निपातिताः । एवं दशसु दिनेषु चेटकेन विनाशिता दशापि कालादयः । एकादशे तु दिवसे चेटकजार्थं देवताराधनाय कुणिकोऽष्टमभक्तं प्रजग्राह ततः शक्रचमरावागतौ ततः शक्रो बभाषे - चेटक : श्रावक इत्यहं न तं प्रति प्रहरामि नवरं भवन्तं संरक्षामि, ततोऽसो तद्रक्षार्थं वज्रप्रतिरूपमभेद्यकवचं कृतवान् । चमरस्तु द्वौ सङ्ग्रामौ विकुर्वितवान्, महाशिलाकण्टकः रथमुशलं चेति, तत्र महाशिलेव कण्टकजीवभेदकत्वान्महाशिलाकण्टकः, ततश्च यत्र तृणशूलादिनाऽप्यभिहतस्याश्वहस्त्यादेर्महाशिलाकण्टकेनेवास्याहतस्य वेदना जायते स सङ्ग्रामो महाशिलाकण्टक एवोच्यते । ' रथमुशले ' इति यत्र रथो मुशलेन युक्तः परिधावन् महाजनक्षयं कृतवान् अस रथ: । ' ओपाए ' इति उपपातः संप्राप्तः ' किं जइस्सइ ' इति जयश्लाघां प्राप्स्यति पराजेष्यते अभिभविष्यति परस्यैन्यं परानभिभविष्यति उत नेत्यादि । श्रीनिरयावलिसूत्रवृत्तौ ।
1194411
इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्त्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे निरयावलिविचारनामाऽष्टमस्तरङ्गः ।। ८ ।।
यस्मादयं समग्रो, व्यवहारो जृम्भते जगन्मध्ये । तदहं धृतबहुमानं विधिना सेवे श्रुतज्ञानम् ॥ १ ॥
သာ သ ာ သ ာ ာာာာာာာာာာာာာာားပြီ
1194411