Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
विचार- रत्नाकरः
119६३||
वा यावद्वराटके वा एको वा अनेको वा सद्भावस्थापनया वा असद्भावस्थापनया वा आवस्सए' त्ति आवश्यकतद्वतोरभेदोपचारात्तद्वानिह गृह्यते, ततश्चैको वा अनेको वा, कथम्भूताः ? अत उच्यते-आवश्यकक्रियावानावश्यकाक्रियावन्तो वा 'ठवणा ठविज्जइ' त्ति स्थापनारूपं स्थाप्यते-क्रियते तत्स्थापनावश्यकमित्यादिपदेन सम्बन्धः, इति समुदायार्थः, काष्ठकर्मादिष्वावश्यकक्रियां कुर्वन्तो यत् स्थापनारूपाः साध्वादयः स्थाप्यन्ते तत्स्थापनावश्यकमिति तात्पर्यम् । अधुनाऽवयवार्थ उच्यते-तत्र क्रियत इति कर्म काष्ठे कर्म काष्ठकर्म काष्ठनिकुट्टितं रूपकमित्यर्थः, चित्रकर्म-चित्रलिखितं रूपकम्, 'पोत्यकम्मे व' त्ति पोत्यं-पोतं वस्त्रमित्यर्थः, तत्र कर्म-तत्पल्लवनिष्पन्नं धीउल्लिकारूपकमित्यर्थः, अथवा पोत्थं-पुस्तकं तच्चेह सम्पुटकरूपं गृह्यते, तत्र कर्म तन्मध्ये वर्तिकालिखितं रूपकमित्यर्थः, अथवा पोत्थं-ताडपत्रादि तत्र कर्म-तच्छेदननिष्पन्नं रूपकम्, लेप्यकर्म-लेप्यरूपकम्, ग्रन्थिमं-कौशलातिशयाद्ग्रन्थिसमुदायनिष्पादितरूपकम्, वेष्टिमंपुष्पवेष्टनक्रमेण निष्पन्नमानन्दपुरादिप्रतीतरूपम्, अथवा एकं व्यादीनि वा वस्त्राणि वेष्टयन कश्चिद्रूपकमुत्थापयति तद्वेष्टिमम्, पूरिम-भरिमं पित्तलादिमयप्रतिमावत्, सङ्घातिमं-बहुवस्त्रादिखण्डसङ्घातनिष्पन्नं कञ्चुकवत्, अक्षः-चन्दनको, वराटकः-कपर्दकः, अत्र वाचनान्तरेऽन्यान्यपि दन्तकर्मादिपदानि दृश्यन्ते तान्यप्युक्तानुसारतो भावनीयानि, वाशब्दाः, पक्षान्तरसूचकाः, यथासम्भवमेवमन्यत्रापि एतेषु काष्ठकर्मादिष्वावश्यकक्रियां कुर्वन्त एकादिसाध्वादयः सद्भावस्थापनयाऽसद्धावस्थापनया वा स्थाप्यमानाः स्थापनावश्यकम्, तत्र काष्ठकर्मादिष्वाकारवती सद्भावस्थापना साध्वाकारस्य तत्र सद्भावात्, अक्षादिषु त्वनाकारवती असद्भावस्थापना साध्वाद्याकारस्य तत्रासद्भावादिति, निगमयन्नाह'सेतं' इत्यादि, तदेतत्स्थापनावश्यकमित्यर्थः । अत्र नामस्थापनयोरभेदं पश्यन्निदमाह-' नामट्ठवणाणं को पइविसेसो' त्ति, नामस्थापनयोः कः प्रतिविशेषो ? न कश्चिदित्यभिप्रायः, तथाह्यावश्यकादिभावार्थशून्ये गोपालदारकादौ द्रव्यमाने यथावश्यकादि नाम क्रियते, तत्स्थापनापि तथैव तच्छून्ये काष्ठकर्मादौ द्रव्यमाने क्रियते, अतो भावशून्ये द्रव्यमाने क्रियमाणत्वविशेषान्नानयोः कश्चिद्विशेषः, अत्रोत्तरमाह-' नामं आवकहियं' इत्यादि, नाम यावत्कथिक-स्वाश्रयद्रव्यस्यास्तित्वकथां यावदनुवर्तते, न पुनरन्तराप्युपरमते, स्थापना पुनरित्वारा-स्वल्पकालभाविनी वा स्यात् यावत्कथिका वा स्वाश्रयद्रव्येऽवतिष्ठमानेऽपि काचिदन्तराऽपि निवर्त्तते, काचित्तु तत्सत्तां यावदवतिष्ठते इति भावः, तथाहि- नाम आवश्यकादिकं मेरुजम्बूद्वीपकलिङ्गमगधसुराष्ट्रादिकं वा यावत्स्वाश्रयो गोपालदारकदेहादिः शिलासमुच्चयादि समस्ति तावदवतिष्ठते
१६३||

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298