Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 179
________________ अनुयोगद्वारविचाराः विचार- भावः, यदिवा समस्तलोकव्यवहारराज्यादिस्थितिप्रणेतृत्वेन प्रमाणभूतोऽस्मिन्नवसर्पिणीकाले तावद्युगादिदेवो भरतो वा तस्याङ्गलं प्रमाणारत्नाकरः इलम्, एतच्च काकिणीरत्लस्वरूपपरिज्ञानेन शिष्यव्युत्पत्तिलक्षणं गुणाधिक्यं पश्यंस्तद्दवारेण निरूपयितुमाह-' एगमेगस्स रण्णो' इत्यादि, एकैकस्य राज्ञश्चतुरन्तचक्रवर्त्तिनोऽष्टसौवर्णिकं काकिणीरत्नं षट्तलादिधर्मोपेतं प्रज्ञप्तम्, तस्यैकैका कोटिरुत्सेधाङ्गलविष्कम्भा, तच्छ्रमणस्य भगवतो महावीरस्या ङ्गलं, तत्सहस्रगुणं प्रमाणाङ्गलं भवतीति समुदायार्थः । तत्रान्यान्यकालोत्पन्नानामपि चक्रिणां काकिणीरत्नतुल्याताप्रतिपादनार्थमेकैकग्रहणम्, निरुपचरितराजशब्दविषयज्ञापनार्थं राजग्रहणम्, दिक्त्रयभेदभिन्नसमुद्रत्रयहिमवत्पर्वतपर्यन्त119६६॥ सीमाचतुष्टयलक्षणा ये चत्वारोऽन्तास्तांश्चतुरोऽपि चक्रेण वर्तयति-पालयतीति चतुरन्तचक्रवर्ती तस्य-परिपूर्णषट्खण्डभरतभोक्तुरित्यर्थः, चत्वारि मधुरतृणफलान्येकः श्वेतसर्षपः, षोडश श्वेतसर्षपाः एक धान्यमाषफलम्, द्वे धान्यमाषफले एका गुञ्जा, पञ्च गुजाः एकः कर्ममाषकः, षोडश कर्ममाषकाः एक सुवर्णः, एतैरष्टभिः काकिणीरत्नं निष्पद्यते । एतानि च मधुरतृणफलादीनि भरतचक्रवर्त्तिकालसम्भवीन्येव गृह्यन्ते, अन्यथा कालभेदेन तद्वैषम्यसम्भवे काकिणीरत्नं सर्वचक्रिणां तुल्यं न स्यात्, तुल्यं चेष्यते तदिति, चत्वारि चतसृष्वपि दिक्षु द्वे ऊर्ध्वाध इत्येवं षट्तलानि यत्र तत्षट्तलम्, अध उपरि पार्श्वतश्च प्रत्येकं चतसृणामस्रीणां भावाद्वादशास्रयः कोट्यो यत्र तद्वादशास्रिकम्, कर्णिका:-कोणास्तेषां चाध उपरि च प्रत्येकं चतुर्णां सद्भवादष्टकर्णिकम्, अधिकरणिः-सुवर्णकारोपकरणं तत्संस्थानेन संस्थितं-तत्सदृशाकारं समचतुरस्रमिति यावत्प्रज्ञप्तं-प्ररूपितम्, तस्य-काकिणीरत्नस्यैकैका कोटिरुत्सेधाङ्गलप्रमाणविष्कम्भा द्वादशाप्यस्त्रय एकैकस्य उत्सेधाङ्गलप्रमाणा भवन्तीत्यर्थः, अस्य समचतुरस्रत्वादायामो विष्कम्भश्च प्रत्येकमुत्सेधाङ्गलप्रमाण इत्युक्तं भवति, यैव च कोटिरूर्वीकृता आयाम प्रतिपद्यते सैव तिर्यक् व्यवस्थापिता विष्कम्भभाग् भवतीत्यायामविष्कम्भयोरेकतरनिर्णयेऽप्यपरनिश्चयः स्यादेवेति Hal सूत्रे विष्कम्भस्यैव ग्रहणम्, तद्ग्रहणे चायोमोऽपि गृहीत एव, समचतुरस्रत्वात्तस्येति, तदेवं सर्वत उत्सेधाङ्गलप्रणाममिदं सिद्धम् ।। a यच्चान्यत्र 'चउरंगुलप्पमाणा सुवण्णवरकागिणी नेये' ति श्रूयते तन्मतान्तरं सम्भाव्यते, निश्चयं तु सर्ववेदिनो विदन्तीति । तदेकैककोटिगतमुत्से धाडलं श्रमणस्य भगवतो महावीरस्याओँडलम्, कथमिदम् ? उच्यते-श्रीमहावीरस्य सप्तहस्तप्रमाणत्वादेकैकस्य च हस्तस्य चतुर्विंशत्युत्सेधाlael ङ्गुलमानत्वादष्टषष्ठ्यधिकशताङ्गुलमानो भगवानुत्सेधाडलेन सिद्धो भवति, स एव चात्माङ्गलेन मतान्तरमाश्रत्यि स्वहस्तेन सार्द्धहस्तत्रय 119६६॥

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298