________________
अनुयोगद्वारविचाराः
विचार- भावः, यदिवा समस्तलोकव्यवहारराज्यादिस्थितिप्रणेतृत्वेन प्रमाणभूतोऽस्मिन्नवसर्पिणीकाले तावद्युगादिदेवो भरतो वा तस्याङ्गलं प्रमाणारत्नाकरः
इलम्, एतच्च काकिणीरत्लस्वरूपपरिज्ञानेन शिष्यव्युत्पत्तिलक्षणं गुणाधिक्यं पश्यंस्तद्दवारेण निरूपयितुमाह-' एगमेगस्स रण्णो' इत्यादि, एकैकस्य राज्ञश्चतुरन्तचक्रवर्त्तिनोऽष्टसौवर्णिकं काकिणीरत्नं षट्तलादिधर्मोपेतं प्रज्ञप्तम्, तस्यैकैका कोटिरुत्सेधाङ्गलविष्कम्भा, तच्छ्रमणस्य भगवतो महावीरस्या ङ्गलं, तत्सहस्रगुणं प्रमाणाङ्गलं भवतीति समुदायार्थः । तत्रान्यान्यकालोत्पन्नानामपि चक्रिणां
काकिणीरत्नतुल्याताप्रतिपादनार्थमेकैकग्रहणम्, निरुपचरितराजशब्दविषयज्ञापनार्थं राजग्रहणम्, दिक्त्रयभेदभिन्नसमुद्रत्रयहिमवत्पर्वतपर्यन्त119६६॥
सीमाचतुष्टयलक्षणा ये चत्वारोऽन्तास्तांश्चतुरोऽपि चक्रेण वर्तयति-पालयतीति चतुरन्तचक्रवर्ती तस्य-परिपूर्णषट्खण्डभरतभोक्तुरित्यर्थः, चत्वारि मधुरतृणफलान्येकः श्वेतसर्षपः, षोडश श्वेतसर्षपाः एक धान्यमाषफलम्, द्वे धान्यमाषफले एका गुञ्जा, पञ्च गुजाः एकः कर्ममाषकः, षोडश कर्ममाषकाः एक सुवर्णः, एतैरष्टभिः काकिणीरत्नं निष्पद्यते । एतानि च मधुरतृणफलादीनि भरतचक्रवर्त्तिकालसम्भवीन्येव गृह्यन्ते, अन्यथा कालभेदेन तद्वैषम्यसम्भवे काकिणीरत्नं सर्वचक्रिणां तुल्यं न स्यात्, तुल्यं चेष्यते तदिति, चत्वारि चतसृष्वपि दिक्षु द्वे ऊर्ध्वाध इत्येवं षट्तलानि यत्र तत्षट्तलम्, अध उपरि पार्श्वतश्च प्रत्येकं चतसृणामस्रीणां भावाद्वादशास्रयः कोट्यो यत्र तद्वादशास्रिकम्, कर्णिका:-कोणास्तेषां चाध उपरि च प्रत्येकं चतुर्णां सद्भवादष्टकर्णिकम्, अधिकरणिः-सुवर्णकारोपकरणं तत्संस्थानेन संस्थितं-तत्सदृशाकारं समचतुरस्रमिति यावत्प्रज्ञप्तं-प्ररूपितम्, तस्य-काकिणीरत्नस्यैकैका कोटिरुत्सेधाङ्गलप्रमाणविष्कम्भा द्वादशाप्यस्त्रय एकैकस्य उत्सेधाङ्गलप्रमाणा भवन्तीत्यर्थः, अस्य समचतुरस्रत्वादायामो विष्कम्भश्च प्रत्येकमुत्सेधाङ्गलप्रमाण इत्युक्तं भवति, यैव च
कोटिरूर्वीकृता आयाम प्रतिपद्यते सैव तिर्यक् व्यवस्थापिता विष्कम्भभाग् भवतीत्यायामविष्कम्भयोरेकतरनिर्णयेऽप्यपरनिश्चयः स्यादेवेति Hal सूत्रे विष्कम्भस्यैव ग्रहणम्, तद्ग्रहणे चायोमोऽपि गृहीत एव, समचतुरस्रत्वात्तस्येति, तदेवं सर्वत उत्सेधाङ्गलप्रणाममिदं सिद्धम् ।। a यच्चान्यत्र 'चउरंगुलप्पमाणा सुवण्णवरकागिणी नेये' ति श्रूयते तन्मतान्तरं सम्भाव्यते, निश्चयं तु सर्ववेदिनो विदन्तीति । तदेकैककोटिगतमुत्से
धाडलं श्रमणस्य भगवतो महावीरस्याओँडलम्, कथमिदम् ? उच्यते-श्रीमहावीरस्य सप्तहस्तप्रमाणत्वादेकैकस्य च हस्तस्य चतुर्विंशत्युत्सेधाlael ङ्गुलमानत्वादष्टषष्ठ्यधिकशताङ्गुलमानो भगवानुत्सेधाडलेन सिद्धो भवति, स एव चात्माङ्गलेन मतान्तरमाश्रत्यि स्वहस्तेन सार्द्धहस्तत्रय
119६६॥