________________
विचार- वाशब्दाः समुच्चयार्था, तस्मिन्नेवावश्यके चित्तं-सामान्योपयोगरूपं यस्येति स तच्चितः, तस्मिन्नेव मनो-विशेषोपयोगरूपं यस्य स रत्नाकर
तन्मनाः, तत्रैव लेश्या-शुभपरिणामरूपा यस्येति त तल्लेश्यः, तथा तदध्यवसित:-इहाध्यवसायोऽध्यवसितम्, ततश्च तच्चित्तादिभावयुक्तस्य सतस्तस्मिन्नेवावश्यकेऽध्यवसितं क्रियासम्पादनविषयमस्येति तदध्यवसितः, तथा तत्तीव्राध्यवसाय:-तस्मिन्नेवावश्यके तीव्र-प्रारम्भकालादारभ्य प्रतिक्षणं प्रकर्षयायि प्रयत्लविशेषलक्षणमध्यवसानं यस्य सः तथा, तथा तदर्थोपयुक्तस्तस्य-आवश्यकस्यार्थस्तदर्थस्तस्मिन्नुपयुक्तस्त
दर्थोपयुक्तः प्रशस्ततरसंवेगविशुद्ध्यमानस्तस्मनिन्नेव प्रतिसूत्रं प्रतिक्रियं चार्थेषुपयुक्त इत्यर्थः, तथा तदर्पितकरणः, करणानि-तत्साधकतमानि 119६५|| देहरजोहरणमुखवस्त्रिकादीनि तस्मिन्-आवश्यके यथोचितव्यापारनियोगेनार्पितानि नियुक्तानि येन स तथा, सम्यक् यथास्थानन्यस्तोपकरण
इत्यर्थः, तथा तद्भावनाभावितस्तस्य-आवश्यकस्य भावना-अव्यवच्छिन्न-पूर्वपूर्वतरसंस्कारस्य पुनः पुनस्तदनुष्ठानरूपा तया भावितोअङ्गाड़िभावेन परिणतावश्यकानुष्ठानपरिणामस्तद्भावनाभावितः, तदेवं यथोक्तप्रकारेण प्रस्तुतव्यतिरेकतोऽन्यत्र कुत्रापि मनोऽकुर्वनुपलक्षणत्वाद्वाचं कायं चान्यत्राकुर्वन्, एकार्थिकानि वा विशेषणान्येतानि प्रस्तुतोपयोगप्रकर्षप्रतिपादनपराणि, अमूनि च लिङ्गविपरिणामतः श्रमणीश्राविकयोरपि योज्यानि, तस्मात्तच्चित्तादिविशेषणविशिष्टाः श्रमणादय उभयकालं-उभयसन्ध्यं यदावश्यकं कुर्वन्ति तल्लोकोत्तरिकं भावमाश्रत्यि भावश्चासावावश्यकं चेति वा भावावश्यकम्, अत्राप्यवश्यं करणादावश्यकत्वम्, तदुपयोगपरिणामस्य च सद्भावाद्भावत्वम्, मुखवस्त्रिकाप्रत्युपेक्षणरजोहरणव्यापारादिक्रियालक्षणदेशस्यानागमत्वान्नोआगमत्वं भावनीयम् । 'सेतं' इत्यादि निगमनम् । तदेवं स्वरूपत उक्तं भावावश्यकम् । इत्यनुयोगद्वारसूत्रहमवृत्तौ १४८ प्रतौ २४ पत्रे ॥२॥
अथ प्रमाणाङ्गलस्वरूपं जिज्ञासया लिख्यते -
से किं तं पमाणंगुले ? पमाणंगुले एगमेगस्स रनो चाउरंतचक्कवट्टिस्स अट्ठसोवन्निए कागिणिरयणे छत्तले दुवालसंसिए अट्ठकन्निए अहिगरणसंठाणसंठिए तस्स णं एगमेगा कोडी उस्सेहंगुलविक्खंभा तं समणस्स भगवओ महावीरस्स अद्धंगुलं तं सहस्सगुणियं ॐ पमाणंगुलं भवइ एएणंगुलप्पमाणेणं ॥ इति । वृत्तिर्यथा-उक्तमुत्सेधाङ्गलम्, अथ प्रमाणडुलं विवक्षुराह से किं तं पमाणंगुले' इत्यादि,
सहस्रगुणितादुत्सेधाडुलप्रमाणाज्जातं प्रमाणाङ्गुलम्, अथवा परमप्रकर्षरूपं प्रमाणं प्राप्तमङ्गुलं प्रमाणाङ्गुलम्, नातः परं बृहत्तरमङ्गुलमस्तीति
१६५।।