________________
विचार- रत्नाकरः
||१६४||
इति तद्यावत्कथिकम्, स्थापना त्वावश्यकत्वेन योऽक्षः स्थापितः स क्षणान्तरे पुनरपि तथाविधप्रयोजनसम्भवे इन्द्रत्वेन स्थाप्यते पुनरपि च | अनुयोगराजादित्वेनेत्यल्पकालीना, शाश्वतप्रतिमादिरूपा यावत्कथिका, तस्याश्चाहदादिरूपेण सर्वदा तिष्ठतीति स्थापना इति व्युत्पत्तेः स्थापनात्वमवसेयम्,
द्वार
विचाराः न तु स्थाप्यत इति स्थापना, शाश्वतत्वेन केनापि स्थाप्यमानत्वाभावादिति, तस्मादावशून्यद्रव्याधारसाम्येऽप्यस्त्यनयोः कालकृतो विशेषः । अत्राह-ननु यथा स्थापना काचिदल्पकालीना तथा नामापि किञ्चिदल्पकालीनमेव, गोपालदारकादौ विद्यमानेऽपि कदाचिदनेकनामपरावृत्तिदर्शनात्सत्यं, किन्तु प्रायो नाम यावत्कथिकमेव, यस्तु क्वचिदन्यथोपलम्भः सोऽल्पत्वान्नेह विवक्षित इत्यदोषः, उपलक्षणमात्रं चेदं कालभेदेनैतयोर्भेदकथनं, अपरस्यापि बहुप्रकारभेदस्य सम्भवात्, तथाहि-यथेन्द्रादिप्रतिमास्थापनायां कुण्डलाङ्गदादिभूषितः सन्निहितशचीवज्रादिराकार उपलभ्यते न तथा नामेन्द्रादौ, एवं यथा तत्स्थापनादर्शनाद्भावः समुल्लसति नैवमिन्द्रादिनामश्रवणात्, यथा तत्स्थापनायां लोकस्योपयाचितेच्छापूजाप्रवृत्तिसमीहितलाभादयो दृश्यन्ते नैवं नामेन्द्रादाविति, एवमन्यदपि वाच्यम् । इत्यनुयोगद्वारसूत्रहैमवृत्तौ १४८ प्रतौ ११ । १२ पत्रे ॥१॥
केचिच्च श्रावकश्राविकाणां मुखवस्त्रिका निषेधयन्ति, अपरे च रजोहरणं भूमिप्रमार्जनमिति कृत्वा मुखाये न स्थापनीयं किन्तु भूम्यामेव स्थापनीयम्, इत्यादि स्वस्वान्तःकल्पनाकवलितशुद्धधिषणाः स्वात्मनां परेषां मुग्धबुद्धीनां चानन्तभवभ्रान्तिहेतवो भवन्ति, ततस्तदुपकाराय रजोहरममुखवस्त्रिकादीनां सत्तासूचकाक्षराणि तेषां यथोचितव्यापारणाक्षराणि च लिख्यन्ते
से किं तं लोउत्तरियं भावावस्सयं जण्णं समणो वा समणी वा सावओ वा साविया वा तच्चित्ते तम्मणे तल्लेसे तदज्झवसिए | तत्तिव्वज्झवसाए तदट्ठोवउत्ते तदप्पियकरणे तब्भावणाभाविए अन्नत्य कत्थइ मणं अकुव्वमाणे ( उव्वत्ते जिणवयणधम्माणुरागरत्तमणे) उभओ कालं आवस्सयं करेइ सेतं लोगुत्तरियं भावावस्सयं, सेतं नोआगमओ भावावस्सयं ॥ इति । वृत्तिर्यथा-' से किं तं लोउत्तरियं' इत्यादि, अत्र निर्वचनम्- लोउत्तरियं भावावस्सयं जण्णं' इत्यादि, 'जण्णं' ति णमिति वाक्यालङ्कारे, यदिदं श्रमणादयस्तच्चित्तादिविशेषणविशिष्टा उभयकालं प्रतिक्रमणाद्यावश्यकं कुर्वन्ति तल्लोकोत्तरिकं भावावश्यकमिति सण्टङ्कः, तत्र श्राम्यतीति१६४|| TITI - मा. श्रमणी-साध्वी. शृणोति साधुसमीपे जिनप्रणीतां सामाचारीमिति श्रावकः-श्रमणोपासकः, श्राविका:श्रमणोपासिका, Mel