________________
रत्नाकरः । 888
-४८०००
विचार-मानत्वाच्चतुरशीत्यङ्गुलमानो गीयते, अतः सामर्थ्यादेकमुत्सेधाङ्गुलं श्रीमन्महावीरात्माङ्गुलापेक्षयाऽर्द्धाङ्गुलमेव भवति, येषां तु मतेन ॐ भगवानात्माङ्गुलेनाष्टोत्तरशताङ्गुलमानः स्वहस्तेन सार्द्धहस्तचतुष्टयमानत्वात्तन्मतेन भगवत एकस्मिन्नात्माङ्गुले एकमुत्सेधाङ्गुलं तस्य च नवभागा भवन्ति १५ / ९ अष्टषष्ठ्यधिकशतस्याष्टोत्तरशतेन भागापहारे एतावत एव भावात्, यन्मतेन तु भगवान् विंशत्यधिकमङ्गुलशतं स्वहस्तेन पञ्चहस्तमानत्वात्तन्मतेन भगवत एकस्मिन्नात्माङ्गुल एकमुत्सेधाङ्गुलं तस्य च द्वौ पञ्चभागौ भवतः १ २ / ५ अष्टषष्ठयधिकशतस्य विंशत्यधिकशतेन भागे हृते इयत एव लाभात् । तदेवमिहाद्यमतमपेक्ष्यैकमुत्सेधाङ्गुलं भगवदात्माङ्गुलस्यार्द्धरूपतया प्रोक्तमित्यवसेयमिति । तदुच्छ्रयाङ्गुलं सहस्रगुणितं प्रमाणाङ्गुलं भवति, कथमिदमवसीयते ? उच्यते भरतश्चक्रवर्ती प्रमाणाङ्गुलेनात्माङ्गुलेन च किल विंशतिशतमङ्गुलानां भवति, भरतात्माङ्गुलस्य प्रमाणाङ्गुलस्य चैकरूपत्वात्, उत्सेधाङ्गुलेन तु पञ्चधनुः शतमानत्वात् प्रतिधनुश्च षण्णवत्यङ्गुलसद्धावादष्टच.'' त्वारिंशत्सहस्राण्यङ्गुलानां सम्पद्यते, अतः सामर्थ्यादेकस्मिन् प्रमाणाङ्गुले चत्वारिशतान्युत्सेधाङ्गुलानां भवन्ति, विंशत्यधिकशतेनाष्टचत्वारिंशत्सहस्राणां च भागापहारे एतावतो लाभात् । यद्येवमुत्सेधाङ्गुलात्प्रमाणाङ्गुलं चतुःशतगुणमेव स्यात् कथं सहस्रगुणमुक्तम् ? सत्यं, किन्तु प्रमाणाङ्गुलस्यार्द्धतृतीयोत्सेधाङ्गुलरूपं बाहल्यमस्ति ततो यदा स्वकीयबाहल्येन युक्तं यथावस्तिमेवेदं चिन्त्य तदोत्सेधाङ्गुलाच्चतुःशतगुणमेव भवति, यदा त्वर्द्धतृतीयोत्सेधाङ्गुललक्षणेन बाहल्येन शतचतुष्टयलक्षणं दैर्घ्यं गुण्यते तदाङ्गलविष्कम्भा सहस्राङ्गुलदीर्घा प्रमाणाङ्गुलविषया सूचिर्जायते, इदमुक्तं भवति- अर्द्धतृतीयाङ्गुलविष्कम्भे प्रमाणाङ्गुले तिस्रः श्रेणयः कल्प्यन्ते, एका अङ्गुलविष्कम्भा शतचतुष्टयदीर्घा, द्वितीयाऽपि तावन्मानैव, तृतीयाऽपि दैर्येण चतुःशतमानैव विष्कम्भे त्वर्द्धाङ्गुलम्, ततोऽस्यापि दैर्ध्याच्छतद्वयं गृहीत्वा विष्कम्भोऽङ्गुलप्रमाण: सम्पद्यते, तथा च सत्यङ्गुलशतद्वयदीर्घा अङ्गुलविष्कम्भा इयमपि सिद्धा, ततस्तिसृणामपि एतासामुपर्युपरि व्यवस्थापने उत्सेधाङ्गुलतोऽङ्गुलसहस्रदीर्घा अङ्गुलविष्कम्भा प्रमाणाङ्गुलस्य सूचिः सिद्धा भवति, तत इमां सूचिमधिकृत्योत्सेधाङ्गुलात्तत्सहस्रगुणमुक्तं वस्तुतस्तु चतुःशतगुणमेव, अत एव पृथ्वीपर्वतविमानान्यनेनैव चतुःशतगुणेनार्द्धतृतीयाङ्गुललक्षणस्वविष्कम्भान्वितेनानीयन्ते, न तु सहस्रगुणया अङ्गुलविष्कम्भया सूच्येति, शेषं भावितार्थम् । इत्यनुयोगद्वारसूत्रवृत्तौ १४८ प्रतौ ९८ पत्रे ।। ३ ।।
इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरिशिष्योपाध्याय
1198611
ဒီသာသာ
ဒီခြံနှင့်
||१६७||