________________
विचाररत्नाकर: के
लिक
||१८६॥
विजितसमस्तराजन्यचक्रराज्यसम्पादकं, स्वर्गावाससम्पादितसुखाशयसन्दोहं, मोक्षफलदायकं जैन धर्मम् । ततो मुधिकया यथोपलब्धेनाहारजातेन Jaaj दशवैकाजीवामीति निशम्य तद्भाषितं, अहो ! एष धर्मः सर्वदुःखप्रमोक्षप्रसाधक इति निश्चित्य विशेषेणाचार्यसमीपे धर्ममाकर्ण्य प्रतिबुद्धो राज्ये
विचाराः सुतं संस्थाप्य प्रव्रज्चामसौ नरपतिरग्रहीत् । एष मुधाजीवी । इति दशवैकालिकपञ्चमाध्ययने प्रथमोद्देशके ॥ ५ ॥
ननु प्रस्तरघटितायां प्रतिमायां किं वन्दनपूजनादिविधिना, किं वा दर्शनेन ? मैवं अरे भद्रमुख ! भगवतोऽयमाकारः, एतद्दर्शनाच्च भगवत्स्मरणम्, ततश्च पुण्योत्पत्तिर्युक्तैव यथा-चित्रलिखितकान्तकान्तावलोकनात्कामाध्यवसायोत्पत्तेस्तन्निषिद्धं, तथेदं पुण्यहेतुत्वादानमपि । चित्रवशावलोकननिषेधश्चायम्
चित्तभित्तिं न निज्झाए, नारिं वा सुअलंकियं । भक्खरं पिव दट्ठणं, दिढेि पडिसमाहरे ।। ५५ ।। इति । वृत्तिर्यथा- चित्रभितिचित्रगतां स्त्रियं न निध्यायेत्-नालोकयेत्, नारी वा सचेतना स्वलङ्कृतां, उपलक्षणादनलङ्कृतां न निरीक्षेत् । कथञ्चिद्दर्शनयोगेऽपि भास्करमिव सूर्यमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेत्-द्राग् निवर्तयेत् । इति श्रीदशवैकालिकाष्टमाचारप्रणिधानाध्ययने १५७ पत्रे ॥ ६ ॥
पुनरपि दण्डकाक्षराणि लिख्यन्ते -
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से कीडं वा पयंगं वा कुंथु वा पिपीलियं वा हत्थंसि वा पायंसि वा बाहुंसि वा ऊरुंसि वा उदरंसि वा सीसंसि वा वत्थंसि वा पडिग्गहंसि वा कंबलंसि वा पायपुछणंसि वा रयहरणंसि वा गोच्छगंसि वा उडगंसि वा दंडगंसि वा पीढगंसि वा फलगंसि वा सेज्जंसि वा संथारगंसि वा अन्नयरंसि वा तहप्पगारे उवगरणजाए तओ संजयामेव पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय एगंतमवणेज्जा नो णं संघायमावज्जेज्जा इति । वृत्तिर्यथा-' से भिक्खू वा' इत्यादि, यावज्जागरमाणे वा इति पूर्ववदेव । ' से कीडं वा' इत्यादि तद्यथा-कीटं वा पतङ्गं वा कुन्थु वा पिपीलिकां वा, किम् ? इत्याह-हस्ते वा पादे वा बाहौ वा ऊरुणि वा उदरे वा वस्त्रे वा रजोहरणे वा गुच्छे वा उन्दके वा दण्डके वा पीठके वा फलके वा शय्यायां वा संस्तारके वा अन्यतरस्मिन् वा तथाप्रकारे साधुक्रियोपयोगिनि उपकरणजाते कीटादिरूपं त्रसं कथञ्चिदापतित सन्तं संयत एवं सन् प्रयत्नेन वा प्रत्युपेक्ष्य प्रत्युपेक्ष्य-पौनःपुन्येनैव सम्यक्, किम् ? इत्याह
||१८६||