________________
द्वार
विचार- पत्रे ॥४॥
Home अनुयोगॐ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्याय
विचाराः श्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरमध्यभागे नवमस्तरङ्गः ॥९॥ ____ यदि भूरिभवाभोगभ्रान्तिश्रान्तं भवन्मनः । भगवद्भारतीभक्तिभाजो भवत तद्धशम् ॥ १॥
__अथ श्रीअनुयोगद्वारसूत्रवृत्तिविचारा लिख्यन्ते-तत्र च स्थापनाऽक्षराणि लिख्यन्ते||१६||
से किं तं ठवणावस्सयं ? ठवणावस्सयं जन्नं कट्ठकम्मे वा १ चित्तकम्मे वा २ पोत्थकम्मे वा ३ लेप्पकम्मे वा ४ गंथिमे वा ५ वेढिमे वा ६ पूरिमे वा ७ संघाइमे वा ८ अक्खे वा ९ वराडए वा १० एगो वा अणेगो वा सब्भावट्ठवणाए वा असब्भावट्ठवणाए वा आवस्सए ति दुवणा ठविज्जइ से तं ठवणावस्सयं । नामट्ठवणाणं को पइविसेसो ? नामं आवकहिअं ठवणा इत्तरिआ वा होज्जा आवकहिआ वा ॥ इति । वृत्तिर्यथा-ईदानी स्थापनावश्यकनिरूपणार्थमाह-' से किं तं' इत्यादि. अथ किं तत्स्थापनावश्यकं ? इति प्रश्ने सत्याह-' ठवणावस्सयं जण्णं' इत्यादि, तत्र स्थाप्यते-अमुकोऽयमभिप्रायेण क्रियते निर्वर्त्यत इति स्थापना-काष्ठकर्मादिगतावश्यकवत् साध्वादिरूपा सा चासौ आवश्यकतद्वतोरभेदोपचारादावश्यकं च स्थापनावश्यकम् स्थापनालक्षणं च सामान्यत इदम् “ यत्तु तदर्थवियुक्तं, तदभिप्रायेण यच्च तत्करणि, लेप्यादिकर्म तत्स्थापनेति क्रियतेऽल्पकालं च ॥ १॥” इति, विनेयानुग्रहार्थमत्रापि व्याख्या-तुशब्दो नामलक्षणात्स्थापनालक्षणस्य भेदसूचकः स चासावर्थश्च तदर्थो भावेन्द्रभावावश्यकादिलक्षणः तेन वियुक्तं-रहितं यद्वस्तु तदभिप्रायेण क्रियते-स्थाप्यते तत्स्थापनेति सम्बन्धः । किंविशिष्टं यदित्याह-यच्च तत्करणि तेन भावेन्द्रादिना सह करणिः-सादृश्यं यस्य तत्तत्करणितत्सदृशमित्यर्थः, चशब्दात्तदकरणि चाक्षादिवस्तु गृह्यते, अतत्सदृशमित्यर्थः, किं पुनस्तदेवंभूतं वस्तु इत्याह-लेप्यादिकर्मेति-लेप्यादिपुत्तलिकादीत्यर्थः, आदिशब्दात् काष्ठपुत्तलिकादि वस्तु गृह्यते, अक्षादि वानाकारं, कियतं कालं तत्क्रियते इत्याह-अल्पः कालो यस्य तदल्पकालं-इत्वरकालमित्यर्थः, चशब्दाद्यावत्कथिकं च शाश्वतप्रतिमादि, यत्पुनर्भावेन्द्राद्यर्थरहितं साकारमनाकारं वा तदर्थाभिप्रायेण क्रियते | तत्स्थापना, इति तात्पर्यमित्यार्यार्थः ॥ १॥ इदानीं प्रकृतमुच्यते-'जण्णं' इति, णमिति वाक्यालङ्कारे, यत्काष्ठकर्मणि वा चित्रकर्मणि ||
||१६||