________________
विचारअथ नन्दीसूत्रविचारा लिख्यन्ते-तत्र पूर्वं श्रीजिनप्रासादसद्भावाक्षराणि लिख्यन्ते
lage नन्दीसुत्ररत्नाकरः संवरवरजलपगलिय-उज्झरपविरायमाणहारस्स । सावगंजणपउररवंत-मोरनच्चंतकुहरस्स ॥ १५ ॥ व्याख्या- 'संवर' इत्यादि,
विचाराः संवरः-प्राणातिपातादिरूपपञ्चाश्रवप्रत्याख्यानरूपः तदेव कर्ममलप्रक्षालनात्सांसारिकतृडपनोदकारित्वात् परिणामसुन्दरत्वाच्च वरजलमिव संवरवरजलं तस्य प्रगलित:-सातत्येन व्यूढ उज्झरः-प्रवाहः स एव प्रविराजमानो हारो यस्य स तथा तस्य, श्रावकजना एव
स्तुतिस्तोत्रस्वाध्यायाद्याराधनमुखरतया प्रचुरा रवन्तो मयूरास्तैर्नृत्यन्तीव कुहराणि जिनमण्डपादिरूपाणि यस्य स तथा तस्य इति नन्दीवृत्तौ 119५६
१९२ प्रतौ ४२ पत्रे ॥१॥
अथ केचनाऽज्ञानिनः स्त्रीणां मुक्ति न मन्यन्ते, तद्युक्तियुक्तसिद्धान्तेन निराकर्तुं लिख्यते
से किं तं अणंतरसिद्धकेवलनाणं? अणंतरसिद्धकेवलनाणं पन्नरसविहं पन्नत्तं तंजहा-तित्थसिद्धा १ अतित्यसिद्धा २ तित्थयरसिद्धा ३ अतित्थयरसिद्धा ४ सयंबुद्धसिद्धा ५ पत्तेयबुद्धसिद्धा ६ बुद्धबोहियसिद्धा ७ इथिलिंगसिद्धा ८ पुरिसलिंगसिद्धा ९ नपुंसगलिंगसिद्धा १० सलिंगसिद्धा ११ अन्नलिंगसिद्धा १२ गिहिलिंगसिद्धा १३ एगसिद्धा १४ अणेगसिद्धा १५ से तं अणंतरसिद्धकेवलनाणं ॥ इति ॥ वृत्तिर्यथा-' से किं तं' इत्यादि, अथ किं तदनन्तरसिद्धकेवलज्ञानम् ? सूरिराह-अनन्तरसिद्धकेवलज्ञानं पञ्चदशविधं प्रज्ञप्तम्, पञ्चदशविधता चास्यानन्तरपाश्चात्यभवरूपोपाधिभेदापेक्षया पञ्चदशविधत्वात्, ततोऽनन्तरभवोपाधिभेदतः पञ्चदशविधतां मुख्यत आह-तद्यथेत्युपदर्शने 'तित्थसिद्धा' इत्यादि, तीर्यते संसारसागरोऽनेनेति तीर्थ-यथावस्थितसकलजीवाजीवादिपदार्थप्ररूपकं परमगुरुप्रणितप्रवचनम्, तच्च निराधारं न भवतीति कृत्वा सङ्घः प्रथमगणधरो वा वेदितव्यम्, उक्तं च-" तित्थं भंते ! तित्थं तित्थकरे तित्थं ? गोयमा ! अरहा ताव तित्थंकरे तित्थं पुण चाउव्वण्णो समणसंघो पढगणहरो वा" तस्मिन् उत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः १, तथा तीर्थस्याऽभावोऽतीर्थः तीर्थस्याभावश्च-अनुत्पादः अपान्तराले व्यवच्छेदो वा तस्मिन् ये सिद्धास्तेऽतीर्थसिद्धाः, तत्र तीर्थानुत्पादे सिद्धा मरुदेवीप्रभृतयः, न हि
मरुदेव्यादिसिद्धि-गमनकाले तीर्थमुत्पन्नमासीत्, तथा तीर्थव्यवच्छेदश्चन्द्रप्रभस्वामिसुविधिस्वाम्यपान्तराले तत्र ये जातिस्मरणादिनाऽपवर्गमवाप्य Is सिद्धास्ते तीर्थव्यवच्छेदे सिद्धाः२, तथा तीर्थङ्कराः सन्तो ये सिद्धास्ते तीर्थङ्करसिद्धाः३, अतीर्थकरसिद्धा-अन्ये सामान्यकेवलिन:४, तथा
11१७६॥
सिद्धाः२, पत्रमासीत्, तथा ती तस्मिन् ये सिद्धा उत्पन्ने ये सिद्धा