Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 172
________________ विचार- 16| प्रमाणं विजृम्भते, देशकालविप्रकृष्टतया तत्र प्रत्यक्षस्याप्रवृत्तेः, तदप्रमाणवृत्तौ चाऽनुमानस्याप्यसम्भवात्, नापि तासु रत्नत्रयप्रकर्षासम्भवरत्नाकरः प्रतिपादकः कोऽप्यागमो विद्यते प्रत्युतसम्भवप्रतिपादकः स्थाने स्थानेऽस्ति, यथा-इदमेव प्रस्तुतं सूत्रं ततो न तासां रत्नत्रयप्रकर्षासम्भवः, अथ मन्येथाः स्वभावत एवातपेनेव छाया विरुध्यते स्त्रीत्वेन रत्नत्रयप्रकर्षः ततस्तदसम्भवोऽनुमीयते तदयुक्तं युक्तिविरोधात्, तथा हिरत्नत्रयप्रकर्षः स उच्यते यतोऽनन्तरं मुक्तिपदप्राप्तिः स चायोग्यवस्थाचरमसमये स चास्माकमप्रत्यक्षः, ततः कथं विरोधगतिः ? न हि अदृष्टेन सह विरोधः प्रतिपत्तुं शक्यते मा प्रापत् पुरुषेष्वातिप्रसङ्गः । ननु जगति सर्वोत्कृष्टपदप्राप्तिः सर्वोत्कृष्टेनाध्यवसायेनावाप्यते 11१५९11 नान्यथा, एतच्चोभयोरप्यावयोरागमप्रामाण्यबलतः सिद्धम्, सर्वोत्कृष्टे च द्वे पदे सर्वोत्कृष्टं दुःखस्थानं सर्वोत्कृष्टं सुखस्थानं च, तत्र सर्वोत्कृष्ट दुःखस्थानं सप्तमनरकपृथ्वी अत: परमदुःखस्थानस्याभावात् सर्वोत्कृष्टं सुखस्थानं तु निःश्रेयसं ततः परमन्यस्य सुखस्थानस्यासम्भवात् ततः स्त्रीणां सप्तमनरकपृथ्वीगमनमागमे निषिद्धं निषेधस्य च कारणं तद्गमनयोग्यतथाविधसर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, ततः सप्तमपृथ्वीगमननिषेधादवसीयते नास्ति स्त्रीणां निर्वाणं निर्वाणहेतोस्तथारूपसर्वोत्कृष्टमनोवीर्यपरिणत्यसम्भवात्, तथा चात्र प्रयोगः-असम्भवनिर्वाणं स्त्रियः सप्तमपृथ्वीगमनत्वाभावात् सम्मूर्छिमादिवत्तदेतदयुक्तम्, यतो यदि नाम स्त्रीणां सप्तमनरकपृथ्वीगमनं प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावः तत एतावता कथमवसीयते निःश्रेयसं प्रत्यपि तासां सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो ? न हि तो भूमिकर्षणादिकं कर्म कर्तुं न शक्नोति स शास्त्राण्यवगाढुं न शक्नोतीति प्रत्येतुं शक्यं प्रत्यक्षविरोधात्, अथ सम्मूर्छिमादिषूभयं प्रत्यपि सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो दृष्टः ततोऽप्यवसीयते ननु यदि तत्र दृष्टस्तर्हि कथमत्रावसीयते ? न खलु बहिर्व्याप्तमात्रेण हेतुर्गमको भवति किं त्वन्तर्व्याप्त्या, अन्तर्व्याप्तिश्च प्रतिबन्धबलेन सिध्यति, न चात्र प्रतिबन्धो विद्यते, न खलु सप्तमपृथ्वीगमनं निर्वाणगमनस्य कारणम्, नाप्येवमेवाविनाभावप्रतिबन्धेन सप्तमपृथ्वीगमनाविनाभाविनिर्वाणगमनम्, सप्तमपृथ्वीगमनमन्तरेणैव चरमशरीरिणां निर्वाणगमनभावात्, न च प्रतिबधमन्तरेणैकस्याभावेऽन्यस्याभावः, मा प्रापद्यस्य कस्यचिदेकस्याभावे सर्वस्याभावप्रसङ्गः, यद्येवं तर्हि कथं सम्मूर्छिमादिषु निर्वाणगमनाभावः ? इति उच्यतेतथाभवस्वाभाव्यात्, तथा हि-ते सम्मूर्छिमादयो भवस्यभावत एव सम्यग्दर्शनादिकं तथावत् प्रतिपत्तुं न शक्नुवन्ति ततो न तेषां निर्वाणसम्भवः, स्त्रियस्तु प्रागुक्तप्रकारेण यथावत्सम्यग्दर्शनादिरत्नत्रयसम्पद्योग्याः ततस्तासां न निर्वाणाभावः, अपि च भुजपरिसर्पा 11१५९॥

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298