________________
विचार- 16| प्रमाणं विजृम्भते, देशकालविप्रकृष्टतया तत्र प्रत्यक्षस्याप्रवृत्तेः, तदप्रमाणवृत्तौ चाऽनुमानस्याप्यसम्भवात्, नापि तासु रत्नत्रयप्रकर्षासम्भवरत्नाकरः प्रतिपादकः कोऽप्यागमो विद्यते प्रत्युतसम्भवप्रतिपादकः स्थाने स्थानेऽस्ति, यथा-इदमेव प्रस्तुतं सूत्रं ततो न तासां रत्नत्रयप्रकर्षासम्भवः,
अथ मन्येथाः स्वभावत एवातपेनेव छाया विरुध्यते स्त्रीत्वेन रत्नत्रयप्रकर्षः ततस्तदसम्भवोऽनुमीयते तदयुक्तं युक्तिविरोधात्, तथा हिरत्नत्रयप्रकर्षः स उच्यते यतोऽनन्तरं मुक्तिपदप्राप्तिः स चायोग्यवस्थाचरमसमये स चास्माकमप्रत्यक्षः, ततः कथं विरोधगतिः ? न हि
अदृष्टेन सह विरोधः प्रतिपत्तुं शक्यते मा प्रापत् पुरुषेष्वातिप्रसङ्गः । ननु जगति सर्वोत्कृष्टपदप्राप्तिः सर्वोत्कृष्टेनाध्यवसायेनावाप्यते 11१५९11
नान्यथा, एतच्चोभयोरप्यावयोरागमप्रामाण्यबलतः सिद्धम्, सर्वोत्कृष्टे च द्वे पदे सर्वोत्कृष्टं दुःखस्थानं सर्वोत्कृष्टं सुखस्थानं च, तत्र सर्वोत्कृष्ट दुःखस्थानं सप्तमनरकपृथ्वी अत: परमदुःखस्थानस्याभावात् सर्वोत्कृष्टं सुखस्थानं तु निःश्रेयसं ततः परमन्यस्य सुखस्थानस्यासम्भवात् ततः स्त्रीणां सप्तमनरकपृथ्वीगमनमागमे निषिद्धं निषेधस्य च कारणं तद्गमनयोग्यतथाविधसर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, ततः सप्तमपृथ्वीगमननिषेधादवसीयते नास्ति स्त्रीणां निर्वाणं निर्वाणहेतोस्तथारूपसर्वोत्कृष्टमनोवीर्यपरिणत्यसम्भवात्, तथा चात्र प्रयोगः-असम्भवनिर्वाणं स्त्रियः सप्तमपृथ्वीगमनत्वाभावात् सम्मूर्छिमादिवत्तदेतदयुक्तम्, यतो यदि नाम स्त्रीणां सप्तमनरकपृथ्वीगमनं प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावः तत एतावता कथमवसीयते निःश्रेयसं प्रत्यपि तासां सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो ? न हि तो भूमिकर्षणादिकं कर्म कर्तुं न शक्नोति स शास्त्राण्यवगाढुं न शक्नोतीति प्रत्येतुं शक्यं प्रत्यक्षविरोधात्, अथ सम्मूर्छिमादिषूभयं प्रत्यपि सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो दृष्टः ततोऽप्यवसीयते ननु यदि तत्र दृष्टस्तर्हि कथमत्रावसीयते ? न खलु बहिर्व्याप्तमात्रेण हेतुर्गमको भवति किं त्वन्तर्व्याप्त्या, अन्तर्व्याप्तिश्च प्रतिबन्धबलेन सिध्यति, न चात्र प्रतिबन्धो विद्यते, न खलु सप्तमपृथ्वीगमनं निर्वाणगमनस्य कारणम्, नाप्येवमेवाविनाभावप्रतिबन्धेन सप्तमपृथ्वीगमनाविनाभाविनिर्वाणगमनम्, सप्तमपृथ्वीगमनमन्तरेणैव चरमशरीरिणां निर्वाणगमनभावात्, न च प्रतिबधमन्तरेणैकस्याभावेऽन्यस्याभावः, मा प्रापद्यस्य कस्यचिदेकस्याभावे सर्वस्याभावप्रसङ्गः, यद्येवं तर्हि कथं सम्मूर्छिमादिषु निर्वाणगमनाभावः ? इति उच्यतेतथाभवस्वाभाव्यात्, तथा हि-ते सम्मूर्छिमादयो भवस्यभावत एव सम्यग्दर्शनादिकं तथावत् प्रतिपत्तुं न शक्नुवन्ति ततो न तेषां निर्वाणसम्भवः, स्त्रियस्तु प्रागुक्तप्रकारेण यथावत्सम्यग्दर्शनादिरत्नत्रयसम्पद्योग्याः ततस्तासां न निर्वाणाभावः, अपि च भुजपरिसर्पा
11१५९॥