________________
विचार-
नन्दीसुत्रविचाराः .
स्नाकर:
19५८॥
शरीरनिर्वृत्तिर्नेपथ्यं च, तत्रेह शरीरनिर्वृत्त्या प्रयोजनं न वेदनेपथ्याभ्यां वेदे सति सिद्धत्वाभावात् नेपथ्यस्यचाप्रमाणत्वात्, आह च चूर्णिकृत्-" इत्थीए लिंग इत्थीलिंग उवलक्खणं वुत्तंति भवति तं च तिविहं वेओ सरीरनिव्वत्ती नेवत्थं च, इह सरीरनिव्वत्तीए अहिगारो न वेद नेवत्थेहिं ति" तस्मिन् स्त्रीलिङ्गे वर्तमानाः सन्तो ये सिद्धास्ते स्त्रीलिङ्गसिद्धाः८, एतेन यदाहुराशाम्बरा न स्त्रीणां निर्वाणमिति तदपास्तं द्रष्टव्यम्, स्त्रीनिर्वाणस्य साक्षादनेन सूत्रेणाभिधानात्तत्प्रतिषेधस्य य युक्तनुपपन्नत्त्वात् । तथा हि-मुक्तिपथो ज्ञानदर्शनचारित्राणि "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इति वचनात्सम्यग्दर्शनादीनि च पुरुषाणामिव स्त्रीणाम्प्यविकलानि, तथा हि-दृश्यन्ते स्त्रियोऽपि सकलमपि प्रवचनार्थमभि-रोचयमानाः, जानते च षडावश्यककालिकोत्कालिकादिभेदभिन्नं श्रुतम्, परिपालयन्ति च सप्तदशविधमकलवं संयमम्, धारयन्ति च देवासुराणामपि दुर्द्धरं ब्रह्मचर्यम्, तप्यन्ते च तपांसि मासक्षपणादीनि, ततः कथमिव तासां न मोक्षसम्भवः ? | स्यादेतदस्ति स्त्रीणां सम्यग्दर्शनं ज्ञानं च न पुनश्चारित्रं संयमाभावात्, तथा हि-स्त्रीणामवश्यं वस्त्रपरिभोगेन भवितव्यमन्यथाऽविवृताङ्यस्तास्तिर्यस्त्रिय इव पुरुषाणामभिभवनीया भवेयुः, लोके च गोपजायते ततोऽवश्यं ताभिर्वस्त्रं परिभोक्तव्यम्, वस्त्रपरिभोगे च सपरिग्रहता सपरिग्रहत्वे च संयमाभाव इति, तदसमीचीनं सम्यग्सिद्धान्तापरिज्ञानात्, परिग्रहो हि परमार्थतो मूर्छाभिधीयते ' मुच्छा परिग्गहो वुत्तो' इति वचनप्रामाण्यात्, तथा हि मूर्छारहितो भरतश्चक्रवर्ती सान्तःपुरोऽप्यादर्शकगृहेऽवतिष्ठमानो निष्परिग्रहो गीयते अन्यथा केवलोत्पादासम्भवात्, अपि च यदि मूर्छाया अभावेऽपि वस्त्रसंसर्गमात्रं परिग्रहो भवेत्ततो जिनकल्पप्रतिपन्नस्य कस्यचित्साधोस्तुषारकणानुषिक्ते प्रपतति शीते केनाप्यविषह्योपनिपातमद्यशीतमीति विभाव्य धर्मार्थिना शिरसि वस्त्रे प्रक्षिप्ते तस्य सपरिग्रहता भवेत्, न चैतदिष्टं, तस्मान्न संसर्गमात्रं परिग्रहः किन्तु मूर्छा, सा च स्त्रीणां वस्त्रादिषु न विद्यते धर्मोपकरणमात्रतया तस्योपादानात्, न खलु ता वस्त्रमन्तरेणात्मानं रक्षितुमीशते नापि शीतकालादिष्वर्वाग्दशायां स्वाध्यायादि कर्तुम् । ततो दीर्घतरसंयमपरिपालनाय यतनया वस्त्रं परिभुज्जाना न ताः परिग्रहवत्यः । अथोच्येत सम्भवति नाम स्त्रीणामपि सम्यग्दर्शनादिकं रत्नत्रयं, परं न तत्सम्भवमात्रेण मुक्तिपदप्रापकं भवति किन्तु प्रकर्षप्राप्तम्, अन्यथा दीक्षानन्तरमेव सर्वेषामष्यविशेषेण मुक्तिपदप्राप्तिप्रसक्तेः, सम्यग्दर्शनादिरत्नत्रयप्रकर्षश्च स्त्रीणामसम्भवी ततो न निर्वाणमिति तदप्ययुक्तम्, स्त्रीषु रत्नत्रयप्रकर्षासम्भवग्राहकस्य प्रमाणस्याभावात्, न खलु सकलदेशकालव्याप्त्या-स्त्रीषु रत्नत्रयप्रकर्षासम्भवग्राहकं प्रत्यक्ष अनुमानं वा
१५८॥