________________
विचाररत्नाकर:08
स्वयम्बुद्धाः सन्तो ये सिद्धास्ते स्वयम्बुद्धसिद्धाः ५, तथा प्रत्येकबुद्धाः सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धा:६, अथ स्वयम्बुद्धप्रत्येकबुद्धानां कः प्रतिविशेषः ? उच्यते बोध्युपधिश्रुतलिङ्गकृतो विशेषः, तथा हि-स्वयम्बुद्धा बाह्यप्रत्ययमन्तरेणेव बुद्ध्यन्ते स्वयमेव-बाह्यप्रत्ययमन्तरेणैव निजजातिस्मरणादिना बुद्धाः स्वयम्बुद्धाः इति व्यत्पत्तेः, ते च द्विधा तीर्थकरास्तीर्थकरव्यतिरिक्ताश्च इह तीर्थकरव्यतिरिक्तैरधिकारः, आह च चूर्णिकृत् “ ते दुविहा तित्थयरा तित्थयरवतिरित्ता वा इह वतिरित्तेहिं अहिगारो" इति, प्रत्येकबुद्धास्तु बाह्यप्रत्ययमपेक्ष्य
बुद्ध्यन्ते प्रत्येकं-बाह्यं वृषभादिकं कारणमभिसमीक्ष्य बुद्धाःप्रत्येकबुद्धा इति व्यत्पत्तेः, तथा च श्रूयते-बाह्यवृषभादिककारणसापेक्ष्य |||१५७।।
करकण्ड्वादीनां बोहिः, बहिः प्रत्ययमपेक्ष्य च बुद्धाः सन्तो नियमतः प्रत्येकमेव विहरन्ति न गच्छवासिन इव संहिताः, आह च चूर्णिकृत्-" पत्तेयं बाह्यं वृषभादिकारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धाः, बहिःप्रत्ययप्रतिबुद्धानां च पत्तेयं नियमा विहारो जम्हा तम्हा य ते पत्तेयबुद्धा" इति, तथा स्वयम्बुद्धानामुपधि‘दशविध एव पात्रादिकः, प्रत्येकबुद्धानां तु द्विधा- जघन्यतः उत्कर्षतच, तत्र जघन्यतो l द्विविध- उत्कर्षतो नवविधप्रावरणवर्जः, आह च चूर्णिकृत-" पत्तेयबुद्धाणं जहन्नेणं दुविहो उक्कोसेणं नवविहो नियमा पावरणवज्जो भवइ" तथा स्वयम्बुद्धानां पूर्वाधीतं श्रुतं भवति वा न वा यदि भवति ततो लिङ्ग देवताः प्रयच्छन्ति गुरुसन्निधौ वा गत्वा लिङ्गं प्रतिपद्यते,
यदि चैकाकी विहरणसमर्थ इच्छा च तस्य तथारूपा जयते तत एकाकी विहरत्यन्यथा गच्छवासेऽवतिष्ठते, अथ पूर्वाधीतं श्रुतं न भवति Prem तर्हि नियमाद् गुरुसन्निधे गत्वा लिङ्गं प्रतिपद्यते गच्छं चावश्यं न मुञ्चति, उक्तं च चूर्णिकृता-“ पुव्वाधीयं से सुयं हवइ वा न वा जइ से
नत्थि तो लिंग नियमा गुरुसन्निहे पजिवज्जइ गच्छे य विहरइ त्ति, पुव्वाधीयसुअसंभवो अस्थि तो से लिंगं देवया पयच्छइ गुरुसन्निधे वा पडिवज्जइ जइ एगविहारविहरणजोग्गो इच्छा वा से तो एक्को वि विहरइ अन्नहा गच्छे चेव विहरइ” इति, प्रत्येकबुद्धानां तु पूर्वाधीतं श्रुतं नियमतो भवति तच्च जघन्यत एकादशाङ्गानि उत्कर्षतः किञ्चिन्यूनानि दशपूर्वाणि तथा लिङ्गं तस्मै देवताः प्रयच्छन्ति लिङ्गरहितो वा कदाचिद्भवति, तथाऽऽह चूर्णिकृत्-“ पत्तेयबुद्धाणं पुव्वाधीअं सुअं नियामा हवइ जहन्नउ इक्कारसअंगाई उक्कोसेणं भिन्नदसपुव्वाइं
लिंगं च से देवया पयच्छइ लिंगवज्जिओ वा भवइ जतो भणियं कणं पत्तेयबुद्धा" इति, तथा बुद्धा-आचार्यास्तैर्बोधिताः सन्तो ये al सिद्धास्ते बुद्धबोधितसिद्धाः, एते च केचित्स्त्रीलिङ्गसिद्धाः, स्त्रियो लिङ्गं स्त्रीलिङ्गं स्त्रीत्वस्योपलक्षणमित्यर्थः, तच्च त्रिधा तद्यथा-वेदः
11१५७||