Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधर्मप्रायकलेवरम्-संगृहीतसंख्यातीताऽनर्थकमतार्थभरं च. एवं च सुखलवाच्छादिते दुःखभरभृते लोके तां परमर्षिनिर्दिष्टां संज्ञां समाश्रित्यैव स्यात् सर्वः कोऽपि सुखभाक्--अतस्तामेव संज्ञा स्पष्टयितुं प्रवृत्तोऽयं ग्रन्थकार एनं लघुग्रन्थं प्रमाणकाण्डनयकाण्ड--जीवकाण्ड--प्रकीर्णककाण्ड--समन्वयकाण्ड-इति काण्डपश्चकेन विभज्य संदृभति-आदौ तावत् तत्संज्ञासंज्ञापकं महावीरं ज्ञातपुत्रापरनामानं श्रीवर्धमानं संस्मरति. ध्यायं ध्यायं महावीरं स्मारं स्मारं गुरोगिरम् । तत्त्वावताररूपोऽयं क्रियते तत्त्वसंग्रहः ॥ १॥
प्रतीतार्थमेतत्.
आदौ तावत् प्रमाणकाण्डं प्रथयतिप्रवृत्ति-निवृत्ति-उपेक्षानिश्वायिनी बुद्धिः प्रमाणम् । १॥
बुद्धिर्हि श्रात्मना सहभाविनी, सा च बुद्ध्यावरणतारतम्येन त्रिधा भवन्ती प्रमाण-अप्रमाण-तदुभयाभावरूपां संज्ञा लभते. तत्र लोके लोकोत्तरे च व्यवहारे प्रमाणरूपैव बुद्धिः बुद्धिः, नान्या.
बुद्धिः, बोधः, ज्ञानम्, अनुमानम्, स्मरणम्, प्रत्यभिज्ञानम्, चिन्तनम्, विचारणम् , अनुभवनम्, स्पर्शनम्, आस्वा. दनम्, सुघाणम्, प्रेक्षणम्, श्रवणं च-इति नार्थान्तरम्.
यथा हि कश्चित् पिपासुर्जलगवेषणाय चक्रममाणो यया बुद्ध्या रूपेण, स्पर्शन, स्वादेन, जलं निश्चिन्वन् जलादानाय प्रवर्तते-सा जलादानप्रवृत्तिनिश्वायिनी बुद्धिः प्रमाणम्. एवं निवृत्तिनिश्चायिनी, उपेक्षानिश्चायिनी च बुद्धिरपि वाच्या.
For Private And Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92