Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
nu
4 तत ' वचनं मत्यादिज्ञानपरिग्रहार्थम् प्रमिणोति, प्रमीयतेऽनेन, प्रमितिमात्रं वा प्रमाणम् । वच्यमाणभेदापेक्षया द्विवचननिर्देशः, तल्लचणं तु स्वपरव्यवसायित्वम् ।
उक्तस्य पश्चविधस्य ज्ञानस्य प्रमाणद्वयान्तःपातित्वे प्रतिपादिते, ते च के द्वे प्रमाणे १ इति परिगणयन् ग्रह
आधे परोक्षम् ॥ २६ ॥
आदौ भवमाद्यम् इति चेत् कथं द्वयोरेव प्रथमत्वम् ? मुख्योपचार परिकल्पनया मतिज्ञानं तावद्वस्तुतो मुख्यत्वात् प्रथमम् श्रुतमपि तत्प्रत्यासत्त्या प्रथममित्युपचर्यते । द्विवचन - निर्देशसामर्थ्याद्गौणस्यापि ग्रहणम् । आद्यं च आद्यं च आधे मतिश्रुते इत्यर्थः, तदुभयमपि परोक्षं प्रमाणमित्यभिसंबध्यते, कुतोऽस्य परोक्षत्वम् । परायत्तत्वात् ।
|
अभिहितलक्षणात् परोक्षादितरस्य सर्वस्य प्रत्यक्षत्व - तिपादनार्थमाह
प्रत्यक्षमन्यत् ॥ २७ ॥
प्रत्यक्षम् उक्तविपरीतं प्रत्यक्षपदवाच्यं प्रमाणम् अन्यत् अवध्यादित्रितयं कुतोऽस्य प्रत्यक्षत्वम् १ अतीन्द्रियत्वात्, स्वायत्तत्वाच इति ।
•
अथैतत्परोक्षं प्रकारतः प्रकटयति
स्मरण- प्रत्यभिज्ञान- तर्कानुमानाऽऽगमभेदतस्तत् पञ्चप्रकारम् || २८ ॥
स्मरणादिकं क्रमशः लक्षयति---
संस्कारप्रत्रोधसंभूतत्वे सति, अनुभूतार्थविषयकत्वं स्मृति
For Private And Personal Use Only

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92