Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमूर्ताऽसंख्येयप्रदेशयुतः स्थित्युपग्रहकार्यानुमेयः श्रधर्मास्तिकायः ॥ ३६ ॥
विशेष्यसार्थक्यं पूर्ववदेव । युतान्तं विशेषणं तु आसनादौ समापतन्तीम् अतिप्रसक्तिं निषेधति ।
क्रमप्राप्तं आकाशाख्यं द्रव्यं निरूपयति
अमूर्तानन्तप्रदेशसहितम् अवकाशोपग्रहकार्यानुमेयमाकाशम् ।। ३७ ॥
स्पष्टं चैतत्-अत्र दिशोप्याकाशे न्तर्भावः, आदित्योद यापेक्षया श्राकाशप्रदेशपत्रिषु ' इत इदम् ' इति व्यवहारोपपत्तेरिति दिक् ।
कालं निरूपयतिवर्त्तनापरिणामः क्रियाद्यपग्रहकार्यानुमेयः कालः॥३८।।
वर्तना-वृत्तिः सर्वपदार्थानां, सा कालाश्रया । परिणामो विविधः, अनादिरादिमांश्च । अरूपिष्वनादिः, रूपिष्वादिमान्. क्रिया तु त्रिविधा प्रायोगिकी, वैश्रसिकी, मिश्रा चेति, आदिपदात् कालिकपरत्वाऽपरत्वयोरुपग्रहो ज्ञेयः ।
क्रमप्राप्तं पञ्चमभेदं पुद्गलं निरूपयति
संख्येयाऽसंख्येयाऽनन्तप्रदेशयुक्ता रूपिणः पुद्गलाः ।। ३६ ॥
रूपं मूर्तिः, तदेषामऽस्ति रूपिणः मूर्तिमन्त इत्यर्थः । अथवा रूपमिति गुणविशेषवचनशब्दः, तदेपामस्ति इति ते तथा पुद्गला इति. बहुवचनं तु तद्भेदप्रतिपादनार्थम् । एते च
For Private And Personal Use Only

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92