Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 89
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विरोधः कथं क्षणमपि स्थातुं शक्नुयात् । यथा भिन्नभिन्नानि शरीराणि अधिष्ठाय लोकाः लौकिकं मार्गम् अविषदमाना एव साधयन्ति, तथा आध्यात्मिकधर्मकलेवरप्रायान् एतान् संप्रदायानपि संप्राप्य विवेकिनः मध्यस्थाः, धर्मपथं च प्राप्तुकामाः स्वविकासं साधयिष्यन्ति । अन्ये च मूढाः संप्रदायभूतग्रस्ताः ' न साधुना वस्त्राणि परिधेयान्येव ' 'साधुना वस्त्रसंचय एव विधातव्यः'' मूर्तिः पूजनीया एव'' मूर्तिन पूजनीया एव' इत्यादिके स्वकुटुम्बक्लेशसमाने धर्मक्लेशे स्वात्मानं निक्षिप्य, श्रीभगवद्महावीरप्रोक्तमपि नयवादं तिरस्कृत्य किं करिष्यन्ति, क्व यास्यन्ति इति त एव जानीयुः । तथा च तान् तादृशान् प्रायो गुर्वाभासानपि वर्तमानान् धर्मगुरून् उद्दिश्य भगवान् आनन्दधनोऽपि शिक्षयति । " भई मिच्छदसणसमूहमइअस्य अमयसारस्स । जिणवयणस्स भगवओ संवेगसुहाहिगम्मस्स" ॥ ७० ॥ ( भद्रं मिथ्यादर्शनसमूहमयस्य अमृतसारस्य । जिनवचनस्य भगवतः संवेगसुखाधिगम्यस्य ॥) -( सम्मतितर्कप्रकरणे तृतीयकाण्डे श्रीसिद्धसेनपादाः) ॥ इति समन्वयकाण्डः ॥ अनल्पग्रन्थसंदर्भान् समालोक्य यथामति । तत्वावताररूपोऽयं रचितस्सारसंग्रहः ॥ १॥ १ जूत्रो १४ मा धर्मनाथस्वामिनु स्तवन-(आनंदघनचोवीशी ). For Private And Personal Use Only

Loading...

Page Navigation
1 ... 87 88 89 90 91 92