Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धम्मपंदप्रभृतिपालिभाषानिबद्ध ग्रन्थावलोकन-मनन-चिन्तनैः पण्डितानां अवश्यमेव विश्वसनीयं भविष्यति इति ते ग्रन्थास्तैरवश्यम् अवलोकनीया इति.
यच तेषां प्रमाणादिव्यवस्थापनम् , तत्तु जिज्ञासुरुचिसमनुकूलतया पूर्ववदेव समन्वेतव्यम्-इति अन्यान्यदर्शनपद्धतिरिव बौद्धपद्धतिरपि अवश्यमेव तदनुसाराचारशालिनां विकासकरी-इति नात्र मतद्वयमस्माकम् । तथा च समर्थित पूज्यपादैर्हरिभद्रैरपि--
"विज्ञानमात्रमप्येवं बाह्यसंगनिवृत्तये । विनेयान् कांश्चिदाश्रत्य यद्वा तद्देशनार्हतः ॥५२॥ न चैतदपि न न्याय्यं यतो बुद्धो महामुनिः। सुवैद्यबद् विना कार्य द्रव्यासत्यं न भाषते ॥ ५३ ॥ एवं च शून्यवादोऽपि तद्विनेयानुगुण्यतः । अभिप्रायत इत्युक्तो लक्ष्यते तत्त्ववेदिना" । ६४ ॥
(शास्त्रवार्ता० स्तबक ६) इति बौद्धगतसमन्वयः । एवमेव मुमुक्षुभिः माध्यस्थ्यमास्थाय अवगम्य चेमां हारिभद्री वाणीम् ( सा च--
सोऽहमस्मि, न मे सो अत्ता ति. एवमेतं यथाभूतं सम्मप्पआय दट्ठव्वं" इत्यादि-(म. सू. २८,४ पृ. १३१ रा०) मज्झिमनिकायगतपाठेन आत्मशब्दवाच्यस्य चिदात्मरूपत्वम् , शरीरभिन्नत्वं च सर्ववादिसंमतं भगवता बुद्धेनाऽपि सुस्पष्टितमेव.
तथा--
२-" अप्पमादो अमतपदं पमादो मच्चुनो पदं । अप्पमत्ता न मीयंति ये पमत्ता यथा मता ॥ १ ॥
( अप्पमादवग्ग)
For Private And Personal Use Only

Page Navigation
1 ... 85 86 87 88 89 90 91 92