Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 85
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परमैश्वर्ययुक्तत्वाद् मत आत्मैव ईश्वरः । स च कर्तेति निर्दोषः कर्तृवादो व्यवस्थितः ॥ १४ ।। शास्त्रकारा महात्मानः प्रायो वीतस्पृहा भवे । सत्यार्थसंप्रवृत्ताश्च कथं तेऽयुक्तभाषिणः ॥१५॥ अभिप्रायस्ततस्तेषां सम्यग्मृग्यो हितैषिणा । न्यायशास्त्राऽविरोधेन यथाह मनुरप्यदः ।। १६ ॥ आर्ष च धर्मशास्त्रं च वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्ते स धर्म वेद नेतरः ॥ १७ ।। (शास्त्रवार्ता. स्तबक ३) इति गौतममतसमन्वयः। अथ बौद्धदर्शनसमन्वयः। " सुगतः किलचतुर्णामार्यसत्यानां दुःखादीनां प्ररूपकः ॥ ४ ॥ दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः । विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥ ५ ॥ रूपविज्ञानम् , रसविज्ञानम् , x इत्यादि x विज्ञानस्कन्धः । सुखा, दुःखा अदुःखसुखा चेति वेदनास्कन्धः । संज्ञानिमित्तोद्रहणात्मकः प्रत्ययः संज्ञास्कन्धः । पुण्य-अपुण्यादिधर्मसमुदायः संस्कारस्कन्धः " ( इति दुःखम् ) " समुदेति यतो लोके रागादीनां गणोऽखिलः। आत्माऽत्मीयभावाख्यः समुदयः स उदाहृतः॥६॥ क्षणिकाः सर्वसंस्कारा इत्येवं वासना यका। स मार्ग इह विज्ञेयो निरोधो मोक्ष उच्यते " ॥ ७ ॥ __ "चित्तस्य निक्लेशावस्थारूपो निरोधो मुक्तिनिंगद्यते" इति षड्दर्शनसमुच्चय. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92