Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अत्र लक्षणे आत्मगुणशब्देन त एव तद्गुणा ग्राह्याः, ये कर्मजाः स्युः तेषां च छेदः " कृत्स्नकर्मक्षयो मोक्षः" इति लक्षयतां जैनानामपि अभिप्रेत एव-इति गौतमोऽपि महर्षि जैनदर्शनेन विरोधभावं बिभर्ति ।
तथा च परमर्षिहरिभद्रःसंसारातीततत्वं तु परं निर्वाणसंज्ञितम् । तद्धयेकमेव नियमाच्छब्दभेदेऽपि तत्त्वतः॥ १२७ ॥ सदाशिवः परं ब्रह्म सिद्धात्मा तत् तथेति च । शब्दैस्तदुच्यतेऽन्वर्थादेकमेवैवमादिभिः ।। १२८ ॥
-( योगदृष्टिसमुच्चय ) यच्च 'सृष्टिसंहारकृत् शिवः' इति तेषां भावनं तत् तु नात्मविकासे विघ्नरूपम् , प्रत्युत केषांचित् प्राणिनां 'नाहं करोमि, नाहं संहरामि, किंतु शिव एव सकलं कलयति' इति भावनया देहाध्यासच्छेदकम् , अत एव उपयोगिभावनारूपत्वेन तकोऽविषयत्वेन च अन्या भावना इव सा भावनाऽपि न ख एडयितुमिष्टाऽस्माकम् ।
संवदन्ति च महर्षयो हरिभद्राः" ईश्वरः परमात्मैव तदुक्तव्रतसेवनात् ।
यतो मुक्तिस्ततस्तस्याः कर्ता स्याद् गुणभावतः ॥११॥ तदनासेवनादेव यत् संसारोऽपि तत्वतः । तेन तस्यापि कर्तृत्वं कल्प्यमानं न दुष्यति ॥१२॥ कर्ताऽयमिति तद्वाक्ये यतः केषांचिदादरः । अतस्तदानुगुण्येन तस्य कर्तृत्वदेशना ॥ १३ ॥
For Private And Personal Use Only

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92