Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 72
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुद्गलाः शरीर-भाषा-मन:-प्राण-अपान-सुख-दुःख-जीवित-मरणोपकारिणः स्पष्टतयैव प्रतीताः । जीवसहितानि च एतानि पड् अपि द्रव्याणि उत्पाद-व्यय-ध्रौव्यभाजि तद्भावाव्ययानि च सन्ति । जीव-धर्मा-ऽधर्मा-ऽऽकाशानि अमूर्तानि, पुद्गलास्तु मूर्ती इत्युक्तम् । नन्वत्र सूत्र रूपमात्रोपादादेन किं रसाधसत्त्वमिति चेन, तदविनाभावित्वेन रसादीनामपि यथासम्भवमुक्तप्रायत्वात् । विशेषतश्च स्वसमयप्रसिद्धाः-अस्तित्वम्, वस्तुत्त्वम्, सामान्यविशेषात्मकत्वम्, प्रमेयत्वम्, अगुरुलघुत्वम्, प्रदेशत्वम्, चेतनत्वम्, अचेतनत्वम्, मूर्तचम्, अमूर्त्तत्वं चंति सामान्यगुणा दश, प्रत्येकमष्टावष्टौ जीवादिद्रव्याणाम् । ____ ज्ञान-दर्शन-सुख-वीर्य-स्पर्श-रस-गन्ध-वर्णाः, गतिहेतुत्वम् , स्थितिहेतुत्वम् , अवगाहनहेतुत्वम् , वर्तमानहेतुत्वम् , चेतनत्वम् , अचेतनत्वम् , मूतेन्वम् , अमूर्तत्वं चेति षोडशविशेषणगुणाः द्रव्याणाम् , प्रत्येकं जीव-पुद्गलयोः पद, इतरेषां त्रयो गुणाः, अन्त्याश्चत्वारो गुणाः स्वजातिविजातिभ्यां सामान्यविशेषरूपाश्च । यो धर्माऽधर्मों शुभाशुभफलप्रसवसमर्थौ तौ च मृ वेव पुद्गलात्मकत्वात् । अत्र च प्रकरणे पुद्गलग्रहणेन तयोग्रहणमिति नास्ति तद्व्यतिरिक्तत्वारेका । ननु गगनविशेषगुणस्य शब्दस्य परिगणितगुणेषु कथमनुपादानम् ? इति चेन्न, भाषावर्गणापरमाणुभिरारब्धत्वेन शब्दस्य पौगलिकत्वात् । प्रमाणं चात्र-'शब्दः पौगलिकः इन्द्रियार्थत्वात् रूपादिवदेवेति' । गगनगुणत्वं त्वसिद्धम् । तथाहि-' शब्दो न गगनगुणः अस्मदादिप्रत्यक्षत्वात् रूपादि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92