Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 80
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६ " यत्रैव यस्य शक्तिः सात्म्यं च विशेषतस्तेषाम् ॥ ४ ॥ स तमाराधयितुमलं यस्मादाराध्य चैनमाप्नोति । शक्त्यन्तरं छुपायान्तरसाधकमुत्तमं नियमात् " ॥ ५ ॥ एतां श्रीमनेकान्तजयपताकागतां श्रीहरिभद्रोक्तिमविस्मृत्य व्यावहारिकाः परस्परं व्यवहरन्ति प्रवर्तन्ते च । तथैव सर्वैरपि दार्शनिकैः तदनुगामिभिश्च नैषा चणमपि विस्मर्तु योग्या इति. तैरेव भगवद्भिः श्रीहरिभद्रैः स्वीयग्रन्थे अन्यत्राऽपि प्रोक्तम् - ॥ ९२ ॥ “ अविद्यासंगताः प्रायो विकल्पाः सर्व एव यत् । तद्योजनात्मकश्चैष कुतर्कः किमनेन तत् ॥ ६० ॥ जातिप्रायश्च सर्वोऽयं प्रतीतिफलबाधितः । हस्ती व्यापादयत्युक्तौ प्राप्ता प्राप्तविकल्पवत् ॥ ६१ ॥ बोधरोगः शमापायः श्रद्धाभङ्गोऽभिमान कृत् । कुतर्कश्वेतसो व्यक्तं भावशत्रुरनेकधा कुतर्केऽभिनिवेशस्तन्न - युक्तो मुक्तिवादिनाम् । युक्तः पुनः श्रुते शीले समाधौ च महात्मनाम् || ६३ ॥ चित्रा तु देशनैतेषां स्याद विनेयानुगुण्यतः । यस्मादेते महात्मानो भवव्याधिभिषग्वराः ॥ १३२ ॥ ( एतेषां सर्वज्ञानां कपिल - सुगतादीनाम् - टी० ) यस्य येन प्रकारेण वीजाधानादिसंभवः । सानुबन्धो भवत्येते तथा तस्य जगुस्ततः एकाऽपि देशनैतेषां यद्वा श्रोतृविभेदतः । अचिन्त्य पुण्यसामर्थ्यात् तथा चित्रावभासते ॥ १३४ ॥ ॥ १३३ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92