Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 79
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यमानाश्च मात्ररीतिप्रभेदावलम्बनेनैव न कदाचिदपि विवदन्ते परम् असन्यापयन्ति वा एवमेव महर्षीणां संनिधाने समागतेषु विविधेषु मोहज्वराकान्तेषु तैस्तैः महर्षिभिः तेषां मोहज्वरं परीक्ष्य दत्तानि-इमानि दर्शनानि औषधरूपाणि, तदनुष्ठानानि च पथ्यरूपाणि प्रदर्शितानि इति तत्र कः कलह-कश्च विरोध इति । पुनश्च इमानि सर्वाणि दर्शनानि भावनारूपीणि-इति यस्य मुमुक्षोर्या समनुकूला भावना स तामाश्रित्य, अनुशील्य च श्रात्मबोधम्-भेदज्ञानम्-विवेकख्याति प्राप्नुयात्, न तत्र संदेहः तथाहि प्रकृति-पुरुषौ मन्वानाः सांख्या:-यदि एवमेव अभ्यस्यन्ति-निश्चिन्वन्ति-च-यद्-न करोत्येष किश्चित्, एतत्तु विभावादिकं सर्व परिस्पन्दनं प्रकृतिव्युग्राहितमेव, ततस्तेषां कथं देहभेदेऽपि विभावोत्पत्तिः, कषायवृद्धिः देहाध्यासो वा स्यात्सांख्यदर्शनविहिततत्त्वपद्धतिमवलम्बमानस्य प्रवृत्ती समाचरतश्च मुमुक्षोः देहायध्यासाऽभावे अवश्यमेव आत्मपथप्राप्तिः-स्वरूपावस्थानं च भवेत्-इति स्वदर्शनानुकूलं समाचरन्तः सांख्याः कैरपि संख्यावद्भिः कथमाक्षेप्तुं योग्या: तथा च भगवान् हरिभद्रः" एवं प्रकृतिवादोऽपि विज्ञेयः सत्य एव हि, कपिलोक्तत्वतश्चैव दिव्यो हि स महामुनिः" ॥४४॥ (शास्त्रवा ०-स्तवक तृतीय ) लोकेऽपि न हि कदापि दुग्धभोजिना शाकभोजी आक्षिप्यते, शाकमोजिना वा दुग्धभोजी आक्षिप्यते-यथाहि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92