Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 77
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रात्मप्रदेशानुभूतकर्मपुद्गल विनाशरूपा निर्जरा. सा द्विधा-विपाकजा, अविपाकजा च, आद्या तावचतुर्गतावनेकजातिविशेषावपूर्णिते संसारमहार्णवे चिरं परिभ्रमतः आत्मनो या शुभाशुभकर्मणः परिपाककालप्राप्तस्याऽनुभवोदयावलिस्रोतोऽनुप्रविष्टस आरब्धफलस्य च या निवृत्तिः सा विपाकजा निर्जरा. ___ अन्त्या तु यत् कर्म अप्राप्तविपाककालमापक्रमिकक्रियाविशेषसामोदनुदीर्ण बलादुदीर्योदयावलि प्रवेश्य वेद्यते आम्र-पनसादिपाकवत् , साऽविपाकजा निर्जरेति । ॥ इति निर्जरा ॥ सकलतत्त्वज्ञानफलं मोक्षं निरूपयितुमाह-- कृत्लकर्मक्षयो मोक्षः ॥ ४६॥ कृत्वानां-सर्वेषाम् अष्टानां कर्मणां क्षयः-नाशः स एव मोक्षः-चतुर्विधपुरुषार्थेषु मुख्यफलरूप इत्यर्थः । परमयोगिनामपि दुर्लभः-स्वस्वरूपावस्थानं त्रिकालाबाधितमिति यावत् । इति प्रकीर्णकाण्डम् For Private And Personal Use Only

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92