Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तच्छन्दन कायादियोगपरामर्शः । कर्मणोरास्रवणादाश्रव इति व्युत्पत्या प्रतिपाद्यं तल्लक्षणमाह-आत्मसमवेतकृतिजन्यकमेविषयकक्रियात्मकत्वमास्रवस्य लक्षणम् । स द्विविधःशुभः अशुभश्च । तत्राशुभो हिंसा-स्तेयाऽब्रह्मादीनि कायिकः, सावद्यानृतपरुषपिशुनादीनि वाचिकः । अभिध्याव्यापादेयाऽसूयादीनि मानसः । अतो विपरीतः शुभः इति ।
यस्मिन् सति त्रिविधानवप्रवृत्तिस्तदधिकरणमनिर्धारितमतस्तद्भेदनिर्दिधारयिषयेदमाह
अधिकरणं जीवाजीवाः ॥ ४३ ॥ अधिकरणं कस्य ? इति जिज्ञासायाम् आस्रवस्येति पूरणीयम् ।
॥ इत्यास्रवः ॥ सति द्वाररूपे तस्मिन् आश्रवे संभवो बन्धस्येत्यभिसंधाय चतुर्थतमं बन्धं निरूपायितुं हेतुनिर्देशपुरःसरं लक्षणमाहमिथ्यादर्शनादिजन्यकर्मवर्गणायोग्यस्कन्धा-ऽऽत्मप्रदेशयोरन्योन्याऽनुगतिमत्त्वं बन्धः ॥ ४४ ।।
आदिपदादविरतिप्रमादकषाययोगानां परिग्रहः । मिथ्यादर्शनं नाम देहाध्यासरूपम् , अविरतिस्तु हिंसादिष्वनिचिरूपा, प्रमादः पुनः कुशलेष्वनादरः कषायस्तावत् क्रोधमान-माया-लोभाख्याः, योगाः पूर्वोक्तकायादिविकल्पाः, ।
ननु बन्धः किमेकरूपः ? उतानेकरूपः? इत्यत श्राह-- प्रकृति-स्थित्यऽनुभावप्रदेशास्तद्विधयः ॥ ४५ ॥
स्वभावादप्रच्युतिः स्थितिः-यथा महिष्यादिक्षीराणां मधुरत्वम् ।
For Private And Personal Use Only

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92