SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तच्छन्दन कायादियोगपरामर्शः । कर्मणोरास्रवणादाश्रव इति व्युत्पत्या प्रतिपाद्यं तल्लक्षणमाह-आत्मसमवेतकृतिजन्यकमेविषयकक्रियात्मकत्वमास्रवस्य लक्षणम् । स द्विविधःशुभः अशुभश्च । तत्राशुभो हिंसा-स्तेयाऽब्रह्मादीनि कायिकः, सावद्यानृतपरुषपिशुनादीनि वाचिकः । अभिध्याव्यापादेयाऽसूयादीनि मानसः । अतो विपरीतः शुभः इति । यस्मिन् सति त्रिविधानवप्रवृत्तिस्तदधिकरणमनिर्धारितमतस्तद्भेदनिर्दिधारयिषयेदमाह अधिकरणं जीवाजीवाः ॥ ४३ ॥ अधिकरणं कस्य ? इति जिज्ञासायाम् आस्रवस्येति पूरणीयम् । ॥ इत्यास्रवः ॥ सति द्वाररूपे तस्मिन् आश्रवे संभवो बन्धस्येत्यभिसंधाय चतुर्थतमं बन्धं निरूपायितुं हेतुनिर्देशपुरःसरं लक्षणमाहमिथ्यादर्शनादिजन्यकर्मवर्गणायोग्यस्कन्धा-ऽऽत्मप्रदेशयोरन्योन्याऽनुगतिमत्त्वं बन्धः ॥ ४४ ।। आदिपदादविरतिप्रमादकषाययोगानां परिग्रहः । मिथ्यादर्शनं नाम देहाध्यासरूपम् , अविरतिस्तु हिंसादिष्वनिचिरूपा, प्रमादः पुनः कुशलेष्वनादरः कषायस्तावत् क्रोधमान-माया-लोभाख्याः, योगाः पूर्वोक्तकायादिविकल्पाः, । ननु बन्धः किमेकरूपः ? उतानेकरूपः? इत्यत श्राह-- प्रकृति-स्थित्यऽनुभावप्रदेशास्तद्विधयः ॥ ४५ ॥ स्वभावादप्रच्युतिः स्थितिः-यथा महिष्यादिक्षीराणां मधुरत्वम् । For Private And Personal Use Only
SR No.020815
Book TitleTattvavatar
Original Sutra AuthorN/A
AuthorDevchandra Kacchi, Bechardas Jivraj
PublisherMeghji Thobhan Sheth
Publication Year
Total Pages92
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy