________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकृतिः स्वभावः यथा निम्बस्य तिक्तता।
यावत्कालं नद्रसविशेषोऽनुभावः, यथा अजागोमहिध्यादिक्षीराणां तीव्रमन्दादिभावेन रसविशेषः ।
इयत्तावधारणं प्रदेशः। विधिशब्दः प्रकारवाचकः, अत्र विशेषस्वरूपं तु 'कम्मपयडी' आदिग्रन्थेभ्योऽवसेयम् ।
॥ इति बन्धः ॥ पूर्वकर्मावयवप्रदेशनिवारक क्रमप्राप्त संवरं दर्शयति
प्रास्रवनिरोधः संवरः ॥ ४६ ॥ अभिनवकर्मोपादानहेतुरासवः पूर्व व्याख्यातः, तन्निरोधो नाम प्रतिबन्धः, स च संवरः, तल्लक्षणं निरूपयतिआत्मनिष्ठकर्मग्रहणहेतुभूतपरिणामाभाववत्त्वम् ॥४७॥
संवृणुते इति संवरः, तदुत्पत्तिस्तु गुप्ति-समिति-धर्माऽनु-प्रेक्षा-परिषहजय-चारित्रैः, तपसा, निर्जरया च ।
गुप्त्यादिनिर्वचनमाह-संसारकारणादात्मनो गोपनं गुप्तिः, प्राणिपीडापरिहारार्थ सम्यगज्यनं समितिः, इष्टस्थाने धत्ते इति धर्मः, शरीरादीनां स्वभावानुप्रेक्षणमनुप्रेक्षा, क्षुधादिवेदनोत्पत्तौ कर्मनिर्जरा) तत्सहनं परिषहजयः, चारित्रं प्रसिद्धमेव, तथैव तपो द्वादशप्रकारमुल्वणम् , निर्जरा तु द्विप्रकारा समनन्तरमेवोच्यते । अथ क्रमप्राप्तां निर्जरां निरूपयति
कर्मपरिशाटनं निर्जरा ॥ ४८ ॥
For Private And Personal Use Only