Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३
स्वरूपान्तरात् स्वरूपव्यावृत्तिरितरेतराभावः, यथा स्तम्भस्वभावात् कुम्भस्वभावव्यावृत्तिः । कालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः । यथा चेतनाऽचेतनयोः - चेतने अचेतनात्यन्ताभावः अचेतने चेतनात्यन्ताभाव इति दिक् ।
ननु ' अस्तिकाय: ' इति कोऽर्थः ? अस्तिकायो नाम प्रभूतप्रदेशसमूहः । जीवादिषु द्रव्येषु कस्य कति प्रदेशाः १ इति तु ततद्रव्यलक्षणे एव लक्षितमिति नेह प्रतन्यते ॥ ॥ इति अजीवतत्त्वम् ॥
जीवा - ऽजीवसंयोजकं तृतीयमास्रवतत्त्वं निरूपयितुं तस्य योगोपन्यासमूलत्वादादौ योगस्वरूपं प्ररूपयन्नाह-कायवाङ्मनः कर्म योगः ॥ ४१ ॥
कोsसावत्र योग : १ इति चेच्छृणु - आत्मप्रदेशपरिस्पन्दो योगः । स च त्रिविधः - उक्तसंज्ञाभेदात् ।
तत्र काययोगं लक्षयति- गमनादिक्रियाहेतुत्वे सति कायात्मपरिणामरूपत्वम् ।
वाग्योगं प्रदर्शयति- उच्चारण क्रियाहेतुत्वे सति भाषा - योगपुद्गलात्मप्रदेशपरिणामरूपत्वम् ।
अन्तिममनोयोगं प्ररूपयति-विकल्पादिक्रियाहेतुत्वे सति मननयोग्य पुद्गलात्मप्रदेशपरिणामरूपत्वमिति ।
किंच कायिकं कर्म, वाचिकं कर्म, मानसिकं कर्म इत्येष त्रिधा योगः ।
अथ तन्मयमेव कायादिस्वरूपतापन्नसंसारिपुरुष संबन्धिक्रियाकलापादभिन्नमात्रवं दर्शयन्नाह -
स आस्रवः ॥ ४२ ॥
For Private And Personal Use Only

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92