Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 69
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५८ Acharya Shri Kailassagarsuri Gyanmandir यथावद्वस्तु निरूपणप्रवणं सप्रपञ्चं प्रमाणं संक्षेपतः निरूप्य तदेकदेशग्राहितया नयान्निरूपयति wed नैगम-संग्रह-व्यवहार-ऋजुसूत्र शब्द- समभिरूढ-एवंभूता नयाः ॥ ३२ ॥ तल्लक्षणं तु प्रमाणसंगृहीतार्थैकांशबोधकत्वम् । नीयतेप्राप्यते येन श्रुताख्यप्रमाणविषयीकृतस्य पदार्थस्यांशस्तदितरांशौदासिन्यतः स प्रतिपत्तुरभिप्रायविशेषो नय इति निर्गलितार्थः । - , स प्रधानतो द्वेधा - द्रव्यार्थिकः, पर्यायार्थिकश्चेति । द्रव्यं सामान्यम् - उत्सर्गः - श्रनुवृत्तिरित्यर्थः तद्विषयो द्रव्यार्थिकः । पर्यायो - विशेषः - अपवाद :- व्यावृत्तिरित्यर्थः, तद्विषयः पर्यायार्थिकः । तयोर्भेदाः नैगमादयः सप्त, तत्र द्रव्यार्थिकनयस्य त्रयो भेदा: - नैगम-संग्रह - व्यवहाराख्याः । पर्यायार्थिकस्य चत्वा - रो भेदाः - ऋजुसूत्र - शब्द- समभिरूढ - एवंभूतस्वरूपाः ।. अत्र संक्षेपतस्तलक्षणान्युच्यन्ते । निगमेषु येऽभिहिताः शब्दास्तेषामर्थः, शब्दार्थपरिज्ञानं च. तद्रूप एव देश- समग्रग्राही नैगमः । अर्थानां सर्वैकदेशसंग्रहणं संग्रहः । लौकिकसमः उपचारप्रायो विस्तृतार्थो व्यवहारः । सतां सांगतानामर्थानामभिधानपरिज्ञानमृजुसूत्रः । यथार्थाभिधानं शब्दः | सत्स्वर्थेष्वसंक्रमस्समभिरूढः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92