Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६ त्वं, यथा तत् तीर्थकरबिम्बमिति, अनुभव-स्मृतिहेतुकत्वे सति सामान्यादिगोचरसंकलनात्मकज्ञानत्वं प्रत्यभिज्ञानत्वं, यथा स एवायं जिनदत्त इत्यादि, उपलम्भानुपलम्भहेतुकं नित्यसाध्य-साधनसंबन्धविषयकं परस्परं सापेक्षसंवेदनं तर्कः, यथा यावान् कश्चिद् धूमः स सर्वोऽपि वह्नौ सत्येव भवति नान्यथा । ___ अथानुमानं द्विप्रकारम् स्वार्थ परार्थ चेति. तत्र स्वार्थानुमानं तावत् प्रदर्शयतिहेतुग्रहण-संबंधस्मरण-कारणकत्वे सति साध्यवि
ज्ञानशालि स्वार्थानुमानम् ॥ २६ ॥ तत्र को नाम हेतुः १ निश्चितान्यथानुपपत्येकलक्षणो हि हेतुः।
किं तावत् साध्यम् ? अभीप्सितं साध्यम् इति. को हि सम्बन्धः १ अविनामावो नाम सम्बन्धः ।
अथ पराजमान प्ररूपयति-पक्ष-हेतु-वचनात्मक परार्थानुमानम्.
पक्षापरपर्यायः साध्यविशिष्टो धर्मी ।
व्युत्पन्नमतिप्रतिपाद्याभिप्रायेणैतल्लक्षणमिति संक्षेपतःसदे॒तुं निरूप्येदानी हेत्वाभासान्निरूपयति-असिद्ध-विरुद्धाऽनैकान्तिकास्त्रयो हेत्वाभासा इति । को नाम हेत्वाभासः १ अनुमिति-तत्करणान्यतरविरोधको हि हेत्वाभासः।।
तत्रासिद्धमभिदधति-यस्यान्यथानुत्पत्तिः प्रमाणेन न प्रतीयते सोऽसिद्ध इति । यथा-परिणामी शब्दः चातुषस्वादिति ।
For Private And Personal Use Only

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92