Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 64
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिपतनशीलं च । ऋजुमतिकं तु तत् न तथा । इति ऋजुमतिविषुलमत्योर्विशेष इत्यर्थः। क्रमागतं पञ्चमं केवलज्ञानं लक्षयतिसाक्षात् सकलज्ञेयविषयकं केवलज्ञानम् ॥ १६ ॥ ज्ञेयत्वं ज्ञेयविषयता, तद्विषयकत्वं तद्विशिष्टत्वम् । सकलज्ञेयविषयकत्वं तु श्रुतज्ञानेऽप्यस्ति. अत उक्तम् 'साक्षात्' इति । एतच्च प्रात्मनः क्षायिकलब्धिरूपम् । एवं ज्ञानपञ्चकं लक्षण-स्वरूपाभ्यां प्ररूप्य तेषां पुनर्विषयप्रदर्शयन्नाहमति-श्रुतयोर्निबन्धः सर्वद्रव्येष्वसर्वपर्यायेषु ॥२०॥ ___ पूर्वोक्तयोमतिश्रुतज्ञानयोर्निबन्धः-संबन्धः क्व ? इत्याशङ्कायामाह-सर्वद्रव्येषु-जीवादिषु. पुनः कथंभूतेषु ? असर्वपर्यायेषु, अत्रायं भावः-ताभ्यां हि आत्मा सर्वद्रव्याणि जानीते. न तु सर्वपर्यायानिति । तदनन्तरमवधेविषयं निदर्शयन्नाह रूपिष्ववधेः ॥ २१ ॥ विषयनिबन्ध इत्यनुसज्यते । 'रूपिषु' इत्यनेन पुद्गलाः, पुद्गलद्रव्यसम्बद्धाश्च जीवाः परिगृह्यन्ते, रूपिष्वेवावधेविषयनिबन्धो, नाऽरूपिष्विति नियम्यते, स चावधिनिबन्धो रूपिष्वपि भवन् न सर्वपर्यायेषु, किंतु स्वयोग्येष्वेवेत्यवधारणार्थम् ' असर्वपर्यायेषु ' इत्यभिसंबध्यते । तदनन्तरं मनःपर्यायज्ञानस्य को विषयनिबंधः ? इत्यत आह-. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92