Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 62
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रिकालविषयकं सत् उत्पन-विनष्टानुत्पनार्थग्राहकतायुतं श्रुतज्ञानम् ॥११॥ यथोक्तलक्षणविशिष्टकेवलादावतिप्रसक्तिवारणाय श्रुतत्वविशिष्टत्वेन विशेषणीयम् । विशेषण-विशेष्ययोर्वस्तुस्थितिप्रदर्शनमात्रपरत्वमवसेयम् । श्रुतमाप्तवचनम् ॥ १२ ॥ श्रुतम् आगमज्ञानम् आप्तवचनम् , आप्तस्य रागद्वेषरहितत्वेन जिनवचनमपि आप्तवचनम्। जिनश्च अलौकिका प्राप्तः, लौकिकस्तु माता-पितृ-गुरु-वृद्धरूपः । इदमपि लक्षणं सुवचम् । लक्षणतो निर्दिष्टं श्रुतज्ञानमिदानीं विकल्पतो दर्शयबाहतन्मतिपूर्व द्वयऽनेकद्वादशभेदम् ॥ १३॥ तत् श्रुतज्ञानं मतिपूर्व मतिकारणकमित्यर्थः । द्विभेदम् , अनेकभेदम्, द्वादशभेदं च । द्विभेदं तावत् अङ्गबाह्यम् , अङ्गप्रविष्टं च । अङ्गबाह्यम् अनेकविधम् , दशवकालिकोत्तराध्ययनादि, अङ्गप्रविष्टं द्वादशविधम् , आचाराङ्गादि-दृष्टिवादपर्यन्तम् । यद्यपि द्विभेदावान्तरभेदयोरनेक-द्वादशपदयोस्वत्रे उपादानं व्यर्थमिव आभाति, तथापि अङ्गवाद्या-ऽङ्गाविष्टरूपमूलभेदोपपादकतयैव तस्य साफल्यम् इति सूक्ष्मदृशः। सर्व एव सुशीलः सर्वश्रुतपाठाधिकारी। तार्तीयीकमवधिज्ञानं निरूपयतिअवाग्धानादवच्छिन्नविषयत्वाद्वा अवधिः ॥ १४ ॥ इदं व्युत्पत्तिमात्रेण कृतमस्ति तल्लक्षणं तु For Private And Personal Use Only

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92