Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्रव्यत्वावच्छिन्नप्रकारताशालि-अभेदसंसर्गकं ज्ञानं भवतीतिदिछ।
ज्ञानस्य किंचित्स्वरूपं प्रदर्श्य तद्भेदानाहतत् मति-श्रुता-ऽवधि-मनःपर्याय-केवलभेदात्
पञ्चविधम् ॥४॥ स्पष्टम् ।
दर्शितपञ्चभिदायामाचं मतिज्ञानं लक्षयतिउत्पन्नाविनष्टपदार्थग्राहकं सत् सांपतकाल
विषयताशालि मतिज्ञानम् ॥ ५ ॥ त्रिकालविषयके श्रुतादावतिप्रसंगवारणाय सत्पदान्तं विशेषणम् । तदुपादाने च श्रुतादेः उत्पनविनष्टानुत्पन्नाद्यर्थस्यापि ग्राहकत्वेन उत्पाद्याऽविनश्यत्पदार्थमात्रग्राहकार्थकसत्पदान्तघटितमतिज्ञानलक्षणस्य नातिप्रसंगः । कालविशेषनियामकतया विशेष्यमपि सफलम्. तदपि सांप्रतकालमात्रार्थकम्-तेन केवलादिव्युदासः । मतेरर्थस्तु-' इन्द्रियमनोभ्यां यथास्वं अर्था मन्यन्तेऽनया ' इति मतिः ।
अथ मतिज्ञानलाभे कि निमित्तम् ? इत्याहतद् इन्द्रियानिन्द्रियनिमित्तम् ॥ ६॥
तद् मतिज्ञानम्-इन्द्रियं चक्षुरादि, अनिन्द्रियं मनः एतदुभयनिमित्तम्-उभयकारणकमित्यर्थः ।
__ अथ कथं पुनरिन्द्रियप्रतिषेधेन इन्द्रियलिंग एव मनसि अनिन्द्रियशब्दस्य प्रवृत्तिः इति चेत् , ईषदर्थस्य नःप्रयोगादिति गृहाण, ईषदिन्द्रियमनिन्द्रियमिति, यथा अनुदरा कन्येति।
For Private And Personal Use Only

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92