Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 63
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधोविषयकबहुतरवस्तुग्रहणशीलम् अवधिज्ञानम् ॥१५॥ केवलं विषयग्राहकत्वस्य उपादाने इतरत्रातिप्रसक्तिः । अतो बहुतरान्तम् । वस्तुतस्तु अवधिज्ञानेन उपरि अधस्ताच ज्ञायते, परन्तु देवाः खलु अवधिज्ञानेन सप्तमनरकपर्यन्तमधः पश्यन्ति जानते, स्तोकमूवं पश्यन्ति स्वविमानध्वजदण्डपर्यन्तमेव इति रहस्यं हृदि निधाय सूत्रोक्तं तथालक्षणं प्राणायि सूत्रकृता । स पुनः द्विविधः भवप्रत्ययः, गुणप्रत्ययश्च । प्रायो देवानां नारकाणां च । द्वितीयस्तु षड्विकल्पात्मकः मनुष्यतिरथामिति । अथ क्रमप्राप्तं मनःपर्यायज्ञानं निरूपयतिपरकीयमनोगतार्थपरिगमकं मनःपर्यायज्ञानम् ॥१६॥ परिगमकत्वं बोधकत्वम् , तत् तावन्मात्रं तु पूर्ववदितरत्रातिप्रसक्तमतोऽर्थान्तम् । विशेषणमात्रोपादाने परकीयमनोविषयादापतिप्रसङ्गः, तन्निवारणाय च विशेष्यम् । अथ तद्वैविध्यं प्ररूपयतितद् ऋजुमति-विपुलमतिभेदात् द्विविधम् ॥ १७ ॥ तत् मनःपर्यायज्ञानम् ऋज्वी मतिर्यस्य तत् ऋजुमति, तथा विपुला मतिर्यस्य तत् विपुलमति-द्विविध-द्विप्रकारम् । उक्तयोरनयोः पुनरपि विशेषप्रतिपत्यर्थमाह--- विशुद्धयप्रतिपाताभ्यां तद्विशेषः ॥ १८ ।। तदावरणक्षयोपशमे सति आत्मनः प्रसादो विशुद्धिः। प्रतिपतनं प्रतिपातः, न प्रतिपातः-अप्रतिपातः, ताम्यां तयोविशेषः । अर्थात् विपुलमतिकं मनःपर्यायज्ञानं विशुद्धम् , अप्र For Private And Personal Use Only

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92