Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 59
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८ प्रकीर्णकाण्डम् पूर्व तावत् मध्यस्थया दृशा, नवीनया च दिशा व्याख्यातमपि सर्व सम्प्रदायदृष्ट्या व्याख्यातुकामो ग्रन्थकारः अस्मिन् प्रकीर्णकाण्डे उपयोग-उपयोगभेद-प्रमाण-प्रमाणभेद-प्रास्रवादिमोक्षान्तं पुनरपि प्ररूपयति । चेतनात्मक उपयोगः । १। चितिः-चेतना-चिच्छक्तिरिति यावत् तदेव स्वरूपम्उपयोगस्य इति । चेतनात्मकत्वम् उपयोगसामान्यलक्षणं प्ररूप्य तदवानन्तरभेदान् प्रदर्शयितुमुपक्रमतेस त्रिविधः ज्ञाना-ज्ञान-दर्शनभेदात्। २ । स उपयोगः त्रिविधः-त्रिप्रकार इति यावत् । तत् त्रैविध्यमेव क्रमशः संलक्षयन्नादौ तावत् ज्ञानं विवेचयतिप्रधानविशेषम् उपसर्जनीभूतसामान्य ज्ञानम् । ३ । प्रधानो मुख्यविशेष्यतया भासमानः विशेषो व्यक्त्यादिरूपः, उपसर्जनीकृतं गुणीभूतम् , सामान्यं सत्त्वादिरूपं च यत्र भाति-यथा इदं द्रव्यम्। _अन्पज्ञधीवृद्धये ज्ञानीयप्रपञ्चं स्यान्मानं विशदयतिज्ञानं विषयि, अर्था विषयाः, तयोः परस्परं स्याद्वादसिद्धोऽध्यवसेयाऽध्यवसायिमावलक्षणः संवन्धः । अत्रज्ञानीयाध्यवसेयतात्रिविधा-विशेष्यताख्या, प्रकारताख्या, संसर्गताख्या च । तथा च 'इदम् द्रव्यम्' इत्यादौ इदंत्वावच्छिन्नविशेष्यतानिरूपित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92