Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 43
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सा द्विविधा नित्यानित्या च ॥६॥ सा पृथिवी द्रव्यार्थिकनयेन-द्रव्यरूपेण-नित्या, पर्यायार्थिकनयेन-कार्यरूपेण अनित्या, साम्प्रदायिकं नयस्वरूपमग्रे वक्ष्यते। नित्यानित्यत्वपक्षस्तु 'अनेकजयपताका' दिभ्यो बोद्धव्यः । एवमेव जलादिष्वपि नेया नित्यानित्यता. । पृथिव्यनन्तरं जलं लक्षयति-- _शीतस्पर्शवजलम् ।। ७।। तमोऽवृत्तिशीतस्पर्शवत्वं जलस्य लक्षणम् तमस्यपि समस्ति शीतस्पर्शवत्त्वम्, अत उक्तम्---' तमोऽवृत्ति' इति । तावन्मात्रोपादाने तमोभिन्ने अनिलाऽनलादौ अतिप्रसङ्ग इत्यतो विशेष्यम् । एतदपि पृथिवीवत् चैतन्यवत् तद्भिन्नं च, तथा तथैव नित्यम्, अनित्यमपि । उष्णस्पर्शवत् तेजः ॥ ८॥ स्पष्टार्थम् । शेषं पूर्ववत् । विजातीयस्पर्शवान् वायुः ॥ ६ ॥ विजातीयस्पर्शवत्वं वायोर्लक्षणम् । किमिदं वैजात्यम् ? -बैजात्यं नाम पृथिव्यादि-अवृत्तित्वरूपं ज्ञेयम् । अन्यत्तु प्राग्वत् । प्रायोऽङ्करसम्बन्धी वनस्पतिः ॥ १० ॥ अविष्वग्भावसंबन्धेन अङ्कुरवत्त्वं वनस्पतेर्लक्षणम् । शेषं तु चेतनाञ्चेतन-नित्यानित्यादि पूर्ववद् वाच्यम्. प्रायोग्रहणं निर्मूली-प्रभृतीनामपि वनस्पतित्वख्यापनार्थम्. तत्र अङ्कुरोद्गमस्य लोकेऽप्रसिद्धत्वात् । अत्र तत्तन्नामकर्मोदयवत्वसंबन्धेन पृथिव्यादिमत्वं पृथिव्यादिजीवानां लक्षणमवसेयमिति. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92