Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५
सा च ज्ञानावरणक्षयोपशमविशेषस्वरूपा, तत्सन्निधानाद् आत्मा द्रव्येन्द्रियम् व्यापारयति, तनिमित्त आत्मनः परिणामः उपयोगः-तदुभयं भावेन्द्रियम् इति भावेन्द्रियम् ।
पुनस्तानि चतुर्विधान्यपि प्रत्येकशः पञ्च प्रकाराणि इत्याहस्पर्शन-रसन-प्राण-चक्षुः-श्रोत्राणि ॥ १७ ॥
एतानि क्रमेण स्पर्श-रस-गन्ध-वर्ण-शब्दविषयाण । स्वस्वविषयोपलब्धिनिमित्तत्वे सति इन्द्रियत्वम्-इति पश्चानामपि इन्द्रियाणां विशेषलक्षणं ज्ञेयम् । अत्र लक्षणे विशेषण-विशेष्ययोः सार्थक्यं स्पष्टमेव, अतोऽनुक्तमपि स्वयमूह्यम् ।
केषां कतिसंख्याकानि इन्द्रियाणि ? इत्याकाङ्क्षाशमनाय आह
तत्र वनस्पत्यन्तानामेकम् ॥ १८ ॥ तत्र उक्तपश्चविधायां पृथिव्यादि-वनस्पत्यन्तानां पञ्चानामित्यर्थः, तेषामेकं स्पर्शनेन्द्रियमिति ।
अवशिष्टानां त्रसानां द्वीन्द्रियादिमत्त्वं केषाम् ? इति जिज्ञासायामाहकृमि-पिपीलिका-भ्रमर-मनुष्यादीनामेकैकवृद्धानि ॥१६॥
___ एकैकेन वृद्धानि एकैकवृद्धानि इति समासेन उत्तरोत्तरम् एकाधिकेन्द्रियवत्वं लभ्यते । तच्चेत्थम्-कृमि-गएडूपद-शङ्ख-शुक्ति-जलौक-प्रभृतीनि द्वीन्द्रियाणि-तेषां स्पर्शनं-सरसनम् - रसनाधिकमिति । पिपीलिका-कुन्थु-मत्कुणादीनि त्रि-इन्द्रियाणि-तेषां स्पर्शन-रसन-घ्राणानि इति । भ्रमर-दंश-वृश्चिकादीनि चतुर-इन्द्रियाणि तेषां तानि एव त्रीणि इन्द्रियाणि
For Private And Personal Use Only

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92